________________
(१३) ‘जगति च गुणसम्पदामधिगमे एतदेव बीज-यद् गुणवतां पूजा-बहुमान-भक्त्यादि क्रियते, विशेषतश्च गुणसम्पदर्थिनो देवा इति योग्यमुक्तं "देवेन्द्रपूजितेभ्य' इति ।
। यद्यपि देवेन्द्राऽनुवृत्त्यादिभिः कारणैः सर्वैरपि भवनवास्याऽऽदिभिर्देवैरप्यहन्तो जन्मांदिषु कल्याणकेषु पूज्यन्ते, परं प्राक् तावत् सर्वेषां देवेन्द्राणामासनांनि चलन्ति, ततो ज्ञात्वा तत्तच्च्यवनादि वस्तु जिनानां महाकल्याणकारि यथाविधि शक्रस्तवेन स्तुवन्ति, पश्चात्तु तदादेशादपरदेवानां पूजाप्रवृत्तिर्जायते इति देवेन्द्रपूजिता इत्युक्तं ।
किञ्च-देवेन्द्राः सर्वेऽपि सम्यग्दृष्टयः स्युः, सम्यग्दृष्टीनां मैत्र्यादि-भावनाचतुष्कं स्वभावसिद्ध, तत्र प्रमोदभावनायां गुणवद्बहुमानस्यावश्यकर्त्तव्यत्वात् उपबृंहणा-प्रभावनयोश्च दर्शनाऽऽचारत्वादवश्यं भवति जिनेषु सदा पूज्यताबुद्धिः, समाचरन्ति चानन्यसदृशया भक्त्या तामिति योग्यमुक्तं 'देवेन्द्रपूजितेभ्य इति ।
यद्यपि श्रीमदहतां भगवतां सेवायै सततमिन्द्रा उपयुक्तास्तथापि च्यवनाऽऽदिषु कल्याणकेषु तेषां नन्दीश्वरमहादिकामपि प्रतिपत्ति कुर्वन्ति, परं सविशेषां भक्तिं शक्रादयो धर्मतत्त्व-देशनाभूमौ कुर्वन्ति शृण्वन्ति चात्यादरात् सह नरादिभिर्निषद्य भगवतां तां देशनामिति प्रोक्तं-'यथास्थितवस्तुवादिभ्य' इति ।
वस्तुभूतौ द्रव्य-पर्यायौ, अतीताऽनागत-वर्तमानपर्यायपरिणामि द्रव्यं, पर्यायास्तदवस्थारूपाः, अवस्था-तद्वतोश्च कथञ्चिदेव भिन्नाऽभिन्नत्वे, नहि ऋजुत्व-वक्रत्वाचा अङ्गल्यादिभ्यः सर्वथा मिन्ना अभिन्ना वा, ध्रुवांशस्तत्र द्रव्यं, 'तद्भावाऽव्यय' मिति यदुच्यते, उत्पाद-व्ययांश पर्यायाः 'तद्भावः परिणाम' इति च उच्यते । एवं चातीताऽनागतपूर्णज्ञानवानेवैकमपि द्रव्यं तत्तत्पर्यायपरिणामितया जानाति, अत एवोच्यते-'जे एगं जाणइ से सव्वं जाणइ 'ति, तथा च नाऽसर्वज्ञा यथास्थितस्यैकस्यापि वस्तुनो ज्ञातारः तथाज्ञानाभावे तथावस्तुवादिता तु दुरापास्तैव ।
किञ्च-ये न सर्वज्ञतां वृताः परतीर्थीयेश्वरास्ते आत्मानं साक्षात्कारेणाऽजानानाः कथङ्कार तत्स्वभावभूतान् ज्ञानादिगुणाननन्तान् पश्येयुः, ? तत आत्मनस्तद्गुणानां च चेन्न साक्षात्कारस्तदा तत्तद्गुणानामावारकाणि उपष्टम्भकानि च कथं विद्युः? इति विहायाऽऽर्हतशासनाऽधीश्वरान् न केऽप्यन्यतीर्थीयेश्वरा ज्ञानावरणीयाऽऽदीन कर्मणो विचित्रान् भेदानभिधातुमीशा बभूवुः, प्राकृतजनवत् पुण्यं पापं च कर्मतया केवलं जगुः, अत एव तेषां ज्ञानाऽऽवरणीयाऽऽदीनामाश्रवान् बन्धकारणानि च यथार्थतयाऽविदन्तः कथङ्कारं तेषामाश्रवाणां रोधने प्रारबद्धानां च निर्जरणे चोपयोगि सम्यगदर्शनादिकं कथं विद्युर्जगुश्च ?