________________
(१६) वरबोधिमत्ताया यावच्छिवप्राप्ति दुर्वारकर्मरिपु-जयनाध्यवसायपूर्वकाऽसाधारणसत्वृत्तेजिन इति गीयते, स एव भव्यजीवैः संसाराऽम्भोधिपरपारगमनोत्सुकैः परमालम्बनं तीर्थं यदुपलभ्यते तत्तेनैव तद्वैतुशीलाऽनुकूल्यतया कृतमिति स एव तीर्थकरतयाऽभीधियते, स एव च संसार-पाराऽधिगमकाटिभिः सम्यग्दर्शनाऽऽदिरूपमोक्षमार्गप्रवृत्तैः परमगुरुतया प्रत्यहं कीर्तन-वन्दन-महिमाऽऽदिपरमपात्रतया . पूज्यते, देवैश्चाऽविच्छेदेनाऽष्टप्रांतिहार्यैःसद्धर्मदेशनाऽवसरे च समवसरणाऽर्च्यते इति कथ्यतेऽहनिति ।
तेभ्योऽर्हद्भ्यो नम इति योगः ।
अर्हन्तश्च भंगवन्त एव, समग्रैश्वर्यादियुक्तत्वात् विशेषतश्च भावावस्थामाप्ता इति तैयीतनीय देवनामोपपदाय च ' भगवद्भ्यं' इति ।
श्रीमदर्हतां भगवंतां भगक्त्वसिद्धिश्च शक्रस्तवाऽभिहिताभिः "आदिकर्तृभ्यः तीर्थकद्भ्यः स्वयंसम्बुद्धेभ्यः" इत्यादिभिः षड्भिः सम्पदाभिरनुसन्धेयेति ।।
एवम्भूता अर्हन्त एव निःश्रेयसकामुकानां विशेषतश्च मोक्षमार्गमाराद्धकामानां नमस्कारार्थी इत्याह-'नम' इति ।
नमसा योगे चतुर्थ्या भवितव्यं, परं प्राकृतशैल्या चतुर्थ्याः स्थाने 'चउत्थिविभत्तीइ भण्णई छट्ठी ति नंदितायोक्तेः, विशेषतश्च चतुर्थी-बहुवचनस्थाने इति हेतोः वीतरागाऽऽदिषु पदेषु षष्ठीबहुवचनान्तप्रयोग इति ।
एतावत्पर्यन्तं वक्तृ-श्रोतृद्वयपठनीयं सूत्रं, ततो नम इति साधारणमव्ययं । . अथ प्रकरणकारा अनुवादं कुर्वन्त आहुः
जे एवमाइक्खंतिः"अंणाई जीवे, अणाई जीवस्स भवे; अाई-कम्मसंजोग-णिव्वत्तिएं" अत्र 'ये एवमाख्यान्ती'-त्यनेन वाक्येनेदं सूच्यते
यथा लौकिकैः प्रेक्षापूर्वकारिभिः शास्त्राणामभिधेयाद्यनुबन्ध-चतुष्टयी विचार्यते, तथा लोकोत्तरप्रेक्षापूर्वकारिभिः श्रोतृभिः सर्वेषामपि शास्त्राणां वीतरागादिऽऽ-विशेषणकलापयुक्ताऽऽप्तप्रणीततैवाऽन्वेष्या, तामन्तरेण निःश्रेयस-मार्गस्य यथार्थोपदेशः काश-कुसुमाऽऽलम्बनप्राय एवेति ।
किच-यथा व्याख्यातृभि-ररक्त-द्विष्ट-मूढ-व्युद्ग्राहिताऽऽदिगुणयुता एव श्रोतारोऽधिकर्तव्याः शास्त्र-श्रवणे, तहदेव श्रोतृभिरप्युपदेशकत्वे त एवाधिकर्तव्या येऽतीन्द्रियार्थदर्शि-वचनाऽनुसारिण एव सन्तो मात्रया तद्वचनानुवादपरा एव भवन्ति, तत एवं यतो निःश्रेयसोपयोग्युपदेशलाभस्तदर्थिन एव च निःश्रेयसंपदाभिलापुका यंत इति ।