________________
(१७)
- अन्यच्च ब्रयमाणा जीवाऽनादिलाऽऽदिका स्त्रिकालमसक्लेश इत्यन्ताः पदार्थी अतीन्द्रिया-. थदृग्वेद्या एवेति प्रकरणकारास्तादृगुक्तगुणनजिनवचनानुवादेन ब्रुवन्तो ज्ञापयन्ति यदुत नैतदहं स्वमनीषिकया ब्रवीमि, येन छमस्थवक्तृतया प्रामाण्यसन्देह-दोलामधिरोहेदेतत् , किन्तु प्रोक्तगुणवदहत्प्रतिपादितं तद् ब्रवीमीति हेतोः, अविहतप्रामाण्यमेतद्वाक्यं समाचरणीयं चैतत् , न केवलं श्रोतव्यं, कर्तयमिदमिति भगवदुभिरर्हद्भिः प्रतिपादनादिति ।
जीवतीति जीव इति वर्तमाना(कृदन्तं तु जीवं पदार्थ नास्तिका अपि भूतेभ्यो भिन्नमभिन्न वोत्पाद्य जीवं प्राण-धारकतया (तम)भ्युपयन्ति ।
तत एव च परलोकाऽऽदीनां नास्तिता-मतिमत्त्वेन नास्तिका व्युत्पादिताः, अत एवाऽऽस्तिकवत् स्वतन्त्रं व्युत्पादितो नास्तिकशब्दः ।
परं जीवति अजीवीत् जीविष्यतीति च जीव इत्यौणादिके व्युत्पादितो जीवशब्दोऽत्र ग्राह्यः, तेन जीवशब्देनैव परलोक-गताऽऽगत-कारिजीवपदार्थसिद्धर्भवान्तरसिद्धिमकृत्वैवाs 'नादिजीवस्य भव' इति प्रतिपादितं ।
भवो हि शरीरधारणं, शरीरं च नाऽबीजमुत्पद्यते, शरीरबीजं कार्मणाख्यं शरीरमेव, तद्धि स्वस्याऽन्येषां च शरीराणामाधारभूतं, कार्मणं च प्रवाहेणाऽनादिमदेव, ततश्च तद्धारकजीववत्तदप्यनादि, ततश्च तत्कार्यभूतो भवोऽप्यनादिरेव ।
यथा चैकमपि बीजं दृष्ट्वा तत्त्ववेदिनो बीजाऽङ्कुरयोः स्वतन्त्रं परस्परं च कार्य-कारणरूपता पुरस्कृत्याऽनादि सन्तति स्वीकुर्वन्ति, एवमेव कर्मणामपि दृष्ट्वा तत्सन्तति तज्जन्यां भवसन्तति चावश्यतयाऽनादिरूपेण स्वीकुर्युरिति युक्तमुक्तं-'अनादिर्जीवः अनादिर्भवः अनादिः कर्मसंयोगश्चे' ति।
ननु कर्मणां स्थितिरेवोत्कृष्टतः सप्तति-कोटीकोटी-सागरोपममितैवेति कथमनादिता कर्मण इति चेत् सत्यं, अत एव संयोग इति पदं, यतः प्रवाहेण तेषां तेषां कर्मणां संयोग आत्मभिरनादिकः, भिन्नानामपि कर्मणां संयोगस्त्वात्मनैव, स चाऽभूतपूर्वो नेत्यनादिक इति ।
ननु कर्मणां पुद्गलाश्चतुःस्पर्शाः, भवाऽवतारास्पदानि शरीराणि सुख-दुःखानुभवहेतवश्च पुद्गला अष्टस्पर्शा इति कथं परस्परं घटकतेति चेत् !
सत्य, बद्धानां कर्मणामबाधाकाल-व्यपगमे यदोदयो जायते, तदा तद्योग्यान् द्रव्य-भव-भावानाश्रित्यैव जायते, परं यथाकर्मैव वेदनं जायते इति 'कर्म-संयोगेन निर्वर्तितोऽयं भव' इति अनादिकर्मसंयोग-निवर्तितोऽयमनादिर्जीवस्य भव'इति कथ्यते ।
कर्माणि हि शरीराऽऽदिद्वारा स्वोदयं दर्शयन्ति, न स्वयमिति तत्वं । विहाय च भवाऽभिनन्दिनश्चरमावतिनो ये जीवास्ते स्वयं भवस्य कर्म-क्लेशैरनुबद्वतां, जन्मनो