________________
(१८) दुःख-निमित्तता, जगतश्च जन्म-जरा-व्याध्या-तङ्क-मरणाऽऽदिभिर्याप्तता-मसारता-मशरणतां चाऽवगम्य स्वभावत एव तत्परिहारोद्यताः स्युस्ततो भवस्य हेयता दुःखमयता च नाऽसिद्धेति न तत्साधनाय यत्नः प्रकरणकाराणां, तत एव चाऽऽहुरनन्तरं प्रकरणकाराः
__ 'एयस्य णं वोच्छित्तीसुद्धधम्माओ, एतच्छब्देनाऽनादिकर्मसंयोग-निवर्तितस्यानाऽऽदेर्भवस्य प्रहः, जीवस्य तु द्रव्यत्वादेव न व्युच्छेदसम्भवः, न च कोऽपि विवेकी नाशं स्वस्येच्छतीति भवस्यैव व्युच्छित्तिरुचिता, भवस्योच्छित्तिस्तु सामान्येन प्रतिभवं स्व-स्वजीवितस्याऽवसानेऽस्त्येवेति तस्याऽपुनर्भावेन व्युच्छेदस्य ग्रहाय व्युच्छित्तिरित्युक्तं । .. __यद्यपि पुनर्भवाऽभाव एव मोक्षः, स च जन्माऽऽदि-व्याबाधारहितोऽनन्ताऽ-व्याबाध-ज्ञानाssदिपूर्ण चेत्युपादेयतया वक्तुं शक्येत, परं तथास्वरूपो मोक्षः साधु-धर्म-पालनस्य फलत्वेन परमप्रयोजनतयाऽऽक्ष्येय इति नाऽत्राऽधिकृतः ।
किञ्च-सामान्येन सर्वेऽप्यास्तिका अविवादेन मोक्षप्राप्तिं भवविच्छेदादभ्युपयन्ति, मुक्तानां स्वरूपादिषु अनेकानां विप्रतिपत्तीनां भावात् , सोऽत्राधिकृतः, किन्तु सर्वाऽऽस्तिक-प्रतिपन्नं भवविच्छेदरूपमेव फलमत्राधिकृतमिति । यद्वा मोक्षस्य स्वरूपे न काचिच्छोतॄणां विधेयता, भवविच्छेदे सति तस्य स्वभावत एव सिद्धत्वात् , श्रोतृ-पुरुषार्थविषयस्तु भवविच्छेद एव । अत एव भगवद्भिस्तत्त्वार्थकारैरपि-'कृत्स्नकर्मक्षयो मोक्ष' इत्युक्तं, कर्मक्षयस्यैव पुरुषार्थविषयत्वात् ।
तथा च पञ्चमसूत्रे यत् मोक्षादेः स्वरूपं निरूिपितं तत्तत्स्वरूपस्य सिद्धस्य ज्ञापनार्थ, पुरुषार्थविषयतया साध्यं प्रयोजनं तु भवविच्छेद एवेति सुष्ठुक्तं 'एतस्य व्युच्छित्ति' रिति । '
यद्यपि 'पुण्याऽपुण्यक्षयान् मुक्ति' रितिवचसः प्रामाण्यात् भवस्य व्युच्छित्तिरभिप्रेता या सा शुद्धधर्मान्न भवति, तस्य पापकर्म-विगमभवत्वात् , पापविगमं प्रति तस्य कारणत्वाच्चेति, परं 'ठिइअणुभागं कसायाओ कुणई ' त्युक्तेः, स्थितिभाक् तु(1) (अनुभागरूपं) द्वयमपि पापरूपेभ्यः कषायेभ्य एव भवति, तत एव च मनुजगतिर्न केवलं पुण्यं पुरस्कृत्य परावर्त्तते परिवर्त ।
किश्च-शुद्धधर्मेण घातितेषु धातिषु अघातीनि तु भवोपग्राहीणीति न भवाऽन्तरमाधातुमलम्भूष्णूनीति पापकर्म-क्षय एव भवक्षयशब्देनाऽभिप्रेत इति ।
यद्वा शुद्धधर्मशब्देन केवलानि सम्यग्दर्शन-ज्ञान-चारित्राणि न गृहीतव्यानि, किन्त्वयोग्यवस्थाभाविनी सर्वसंवर-सर्वशरीरविप्रहाणहेतु-निर्जरामव्यवस्था ग्राह्या, तत्कारणतया पापकर्मवियोगो यदा गृह्यते, तदा सर्वस्यापि कर्मणो मोक्षप्रतिबन्धकत्वात् पापकर्मताऽवधायेति ।
प्रस्तुतस्तु शुद्धधर्मश्वरमाऽऽवर्तभाविनी मार्गाऽभिमुखाद्यवस्था परिगृह्यते; तत्रैव तथा