________________
भव्यत्व-परिपाकाऽऽदेरारम्भात् । अत एव सदन्धमार्गप्रवृत्तिन्यायेन तद्वर्तिनां चेतसोऽवक्रगमादिना, मार्गानुसारितोच्यते ।
- यद्यप्युपचारतः सकृद्बन्धकाऽऽदेरप्यस्त्येव योग-पूर्वभूमिका, परं तत्वदृष्टेरेवाऽधिकाराच्चरमाssवर्तभाव्येव शुद्धधर्मो गृह्यते, शुद्धधर्मप्राप्तिश्चाऽनन्तशो जाता, भव्यानामपि प्रार, अनन्तशो वेयकोपपात-श्रुतेः, परं चरमाऽऽवर्तमाविनी भावप्राप्तिं लक्षयितुं सम्माप्तिरिति (प्राप्तिः) समा विशेष्यते। .
ततश्च शुद्धधर्म-सम्प्राप्तेः कारणतया पापकर्म-विगमो भववालकालंगत-मोह-विगम इति वाच्यः, तस्यैव चरमाऽऽवर्तगत-शुद्धधर्मसम्प्राप्तेः प्रतिबन्धकत्वात् । . . . . :'
तथा च न सवेद्याऽऽदिभिन्नतया ज्ञानाऽऽवरणीयाऽऽदितया वोक्तं पापकर्म नैवाऽत्र-ग्राह्यं, अत' एव तथाविधस्य तस्य विंगमे तथाभव्यत्वाऽऽदिभाव एव हेतुतयोक्तः, तदवसरे कालो-यम-स्वभावाssदीनामहेतुत्वस्य गौण-हेतुत्वस्य वा स्वीकारादिति । परावर्त्तस्यान्त्ये भागे भाविन्या अपि निरांदिक-भवविच्छित्तिरस्या एव चरमावर्तभाविन्या मार्गप्रवृत्तेरिति नाऽयुक्तम् 'एअस्स णं वोच्छित्ती' त्यादिवचन;". अनन्त्य-पुद्गलपरावर्तीय-भवबालकालीन-मोहपापकर्मविगमस्तथाभव्यत्वभावत एव, तत्रेतरहेतुसत्त्वेऽपि 'स.च भवति कालादेव प्राधान्येन सुकृतादिभावेऽपी' त्युक्तेः कालादेव चरमाऽऽवर्तलक्षणात् तथाभव्यत्वं, आदितस्तत्परिपाकस्तत्कारणानि चेतराणि गौणतया ग्राह्याणि । अत एव 'जे एवें' त्यादि 'एयरस णं वोच्छित्ती' त्याद्यनूद्य सूत्रद्रयवत्तृतीयानूयसूत्रे वक्ष्यमाणे 'तस्स पुणे' त्यत्र तच्छब्देन तथाभव्यत्वमेव परामर्शिष्यन्ति प्रकरणकारा इति ।
न च वाच्यं समासे गौणीभूतं तथाभव्यत्वं कथं परामृश्यते ? इति 'अष्टापायविनिर्मुक्तस्तदुत्थगुणभूतयें (हारि० अष्टक ) इतिवद् गौणस्य विशेषणीभूतस्यापि ग्रहादिति । ... यद्वाऽऽदिशब्देन तत्परिपाक एव गृह्यते, ततश्च 'मुख्यस्य परामर्श' इति तथाभव्यत्वस्यापि भव्यत्ववदनादित्वात्तस्य पाकः प्रतिपुद्गलावतं भवत्येव, परं न तत्र चतुःशरणगमनायध्यवसायस्योद्भवः, किन्त्वत्रैव चरमावर्तीय एव पाके इति विशिष्टत्वादेतस्य पाकस्य आहुः प्रकरणकारा 'विपाक' इति ।
यद्यपि तथाभव्यत्वस्याऽपि विपाकश्चरमाऽऽवर्तवर्तिकालविशेषादेव, तथापि तद्विपाककालेऽवश्यमेतानि चतुःशरणगमनाऽऽदीन्यवश्यं भवन्ति, मोक्षकाले सभप्रकर्मक्षय-सद्भाववदिति । यद्यपि त्रयाणामपि शरणगमन-दुष्कृतनिन्दा-सुकृतानुऽसेवनानां सामान्येन तथाभव्यत्वविपाक-साधनत्वमुक्तं, तथापि दुष्कृतसुकृतानां स्वरूपं प्रतिशासनं भिन्नमित्याऽऽर्हतशासनाऽनुसारिणी ते ग्राह्ये इति प्रथममेव चतुःशरणगमनं व्याख्यातुमुचितमिति ।
चित्तसमाधानपूर्वकस्य सकलाऽनुष्ठानस्य शुद्धफलदायित्वं, तत एव च सकलानां स्वाध्याय-ध्यानाऽऽवश्यकादि-विशेषाऽनुष्ठानानामीर्यापथिकीप्रतिक्रमणपूर्वकता मता इति, अत्रांऽपि