________________
(२०) सुकृताऽनुसेवनस्याऽऽदौ दुष्कृत-गर्हाया आवश्यकता, पापधिक्कारवतामेव धर्मसिद्धेः सम्भवात्... सुकृताऽनुसेवनरूपस्य धर्मस्य सिद्धिहेतोरपि दुष्कृतनिन्दारूपस्य पापधिकारस्याऽऽवश्यकता . अनिवार्येति ।
शरण्येष्वपि चतुर्णामेवान्यूनाऽतिरिक्तानामेव शरणदातृत्वे योग्यता, शरण्यताग्रहणमपि चतुर्णा-. मेवाहदादीनां योग्यं यतो न विहाय चतुर एतान् जगत्यस्ति कोऽपि तथापकारस्त्राता पापेभ्यः, .. साधकश्च निःश्रेयससाधनानां ।
तथाभव्यत्त्वपरिपाकवांश्च जीवो निःश्रेयसमार्गस्य देशकतया प्रथममर्हतः शरणं प्रपद्यते, .. प्रतिपन्नश्चार्हता. शरणं तदैव निश्चितं मोक्षसाधनसमर्थः स्याद्यदि सनातनपदस्थाः सच्चिदानन्दपूर्णाः शाश्वताः सिद्धा मोक्षमार्गप्रवृत्तिफलरूपाः स्युरिति योग्यमेव द्वितीयं सिद्धानां भगवतां शरणीकरणमिति, लब्धे मार्गे स्थिरेऽवश्यप्राप्तव्ये निश्चिते च साध्ये तत्प्राप्तये यत्न आस्येयो बुद्धिमद्भिः, परं स यत्नो नैकाकिनाऽनादिकालोनप्रमादग्रस्तेन साध्यते, न च निःसाधनो यत्नः कार्यसाधक इति सहायकाः सन्मार्गोपदेशकाः सहायकाश्चावश्यमेष्टव्याः साधव इति तृतीये शरणे साधवः, भगवद्भिः केवलिभिः श्रीअहंदादिभिः प्ररूपितं शासनं धर्मरूपं यत् तदेवाऽपवर्गप्रापणप्रवणोऽध्वेति, तस्याऽप्यसाधारणोपकारकतया तत्त्वतस्त्वपवर्गमार्गरूपतयाऽवश्यं स्वीकरणीयैव शरणतेति योग्यमेवाsन्यूनाऽतिरिक्ततयाऽसाधारणोपकारतया च चतुर्णामेव शरणानां स्वीकार इति ।
एवं च चतुरन्तपृथ्वीसाधनसमर्थ-चक्रवर्तिचक्ररत्नवच्चतुर्गत्यन्तकारकचतुःशरणचक्रे गृहीते ऋषभकूटभेदवद् दुष्कृतानां तद्गद्विारा भेदन, नवनिधानसाधनवच्च सुकृतानामनुसेवनं च स्वभावसिद्धमेव, तद्वयमन्तरा तात्विकस्य चतुःशरणगमनस्यैवासम्भवात् ।
एवं च तत्वतः पारम्पर्येण सकलस्य मोक्षमार्गस्य सिद्धिरेतत्रितयेनेत्यतः आहुः प्रकरणकाराः श्रीमदर्हतां भगवतां वाक्यानुवादेन–'अओ कायन्यमिणं 'ति, यत एतावता ग्रन्थेन साधितमिदं यदुत-" चतुःशरणगमन-दुष्कृतनिन्दा-सुकृतानुसेवनैस्तथाभव्यखादेविपाकः, तस्माच्च तथाविधानां पापकर्मणां नाशः, नाशाच्च तथाविधानां पापानां शुद्धधर्मस्य सम्माप्तिः, तस्याश्च शुद्धधर्मसम्पचेरनादिकर्मसंयोगनिवर्तितस्य भवस्य व्युच्छेद इति । .
ततो भवविच्छेदाऽनन्तरभाविना सिद्धावस्थेन भवितुकामेन कर्त्तव्यमिदं, सावधारणत्वाञ्च कर्तव्यमेवेदं त्रयमिति ।
अतः साधितकर्त्तव्यस्याऽस्य विधेः कालं दर्शयितुमाहुः प्रकरणकारा अनुवादयन्तः-'भुजो २ संकिलेसे तिकालमसंकिलेसे' इति,
संक्लेशश्चात्र भयानके रोगे दीर्घकालीने आमये कस्मिंश्चिदपि वा मरणदायिनि प्रसङ्गे उपस्थिते या मनसो व्यग्रता, तदुत्थ आत्मपरिणामः, तस्मिंश्च सतिं यदा यदा शक्यं ।