________________
(१०)
जीवानां प्रमादबाहुल्यादनादिप्रमाद-वासनाऽऽभ्यासवशाच्चानीप्सतामपि प्रमादास्तजनितानि च पापानि दुरन्तानि भवन्ति, तत्र नाथयें, परं ! जातानां दुष्कृतानां निरनुवन्धिता तदैव स्यात् यदा तेषां निन्दनादि क्रियते, प्रतिक्रमणस्यैव सर्वाऽतिचारशोधनस्य मूलभूतत्वात् ।
1
अत एव कृतसामायिका अपि निन्दाssदिना भूतकालीनान् सावद्ययोगान्निन्दन्त्येव तपश्चाभ्यन्तरं प्रतिक्रमणमिति निकाचितानामपि दुरितानां क्षयाय अभ्यन्तरमेव तपोऽलं, ततश्वातीत कालीनानां सर्वेषां गुणाधानाय गर्हाssवश्यकीसि ।
यथैव हि दुष्कृतानां पुराकृतानां निन्दनेन निरनुबन्धिता भवति, कृतानां सुकृतानामनुमोदनेनैव पुष्टानुबन्धिता भवतीत्याह-कृतानुमोदनरूपस्य सुकृतवरस्याचरणाय सुकृतासेवनमिति ।
इदं शरणगमन-दुष्कृतगर्हा-सुकृतानुसेवनरूपं त्रितयं सर्वेषां प्रपन्न - जैनशासनानामवश्यं कर्तव्यमिति सूत्रेष्वप्यङ्गोपाङ्गादिपु तद्भवसिद्धिकादीनामप्येतत् त्रिकमप्येवान्याऽऽराधना श्रूयते ।
अत एव च वक्ष्यति - " कर्तव्यमिदं भवितुकामेने "ति, एष उपदेश: सप्ततन्त्व्याः सारः, आराध्यानां देवगुरुधर्माणमाश्रयः, आसेव्यानां सम्यग्दर्शनचारित्राणामनन्यस्वरूपश्च ।
यत्रोऽत्र हेयानामाश्रव-बन्धानां विगमः पापकर्मविगमेन, संवर- निर्जरयोग्रता शुद्धधर्मसम्पत्तेः सम्पादनेन, भवविच्छेदेन मोक्षश्च स्पष्टतया भणितः, उपदेश्यत्वेन जीवस्तु साक्षात्कृतोऽस्त्येव । आराध्यपादानामाराधनं तु शरणगमनस्य दुष्कृतगर्हायुक्तसुकृताऽनुसेवनात् प्रागेवाऽऽख्यातं । न च विरहय्यार्हत्-सिद्ध-साधूनन्य आराध्यः शासने जैने ।
सम्यग्दर्शनादिरूपत्वमस्यैवं -
यथास्थिततवानां जीवानामनादित्वादीनां श्रद्धाने बोधे च सम्यगदर्शनं सम्यग्ज्ञानं, दुष्कृतत्याग-सुकृतसेवे तु विहाय न किमपि चारित्रमिति ।
तत एव चाह - 'भवितुकामेने 'ति । अनादिकर्मजनिताऽनादिभवेन रहिततया भवितुमिच्छता सिद्धि प्राप्तुमनसेत्यर्थः, कर्तव्यं योग्यमेव इदं चतुः शरणगमनादिकं त्रयमिति ।
'नमो वीतरागेभ्य' इत्यत आरभ्य यो वाक्यप्रबन्धः स प्रकरणकर्त्रा जिनानुवादेन प्रतिपादितः, परतच पापप्रतिघात गुगवोजाऽऽघानप्रतिपादनपरं सूत्रं सदनुष्ठात्रुक्त्यनुवादेन वक्ष्यति ।
अतोऽत्र चतुःशरणगमनादीनां कर्तत्र्यताकालं निर्दिशति - सङ्क्लेशकालश्चातङ्कोपसर्गाभिभवाऽऽदियुतः, तद्रहितत्वसक्लेशकालः, तत्राऽऽतङ्कादौ सततमन्यथा त्रिसन्ध्यमवश्यं कार्य, सिद्धिमाप्तुमनसेति योगः ।