________________
आदिना बादर-त्रस-पञ्चेन्द्रियत्वाऽऽदीनि साधारणकारणानि, प्रान्त्याऽऽवर्तकालेऽपि सुषमाssदिकः, यथाप्रवृत्त्याऽऽदिकरणत्रिकोद्यमो यत्न इत्यादीनि चाऽसाधारणानि कारणानि ग्राह्याणि ।
भावशब्दोऽत्र सद्भावस्य वाचकः, न प्राप्तिहेतुर्धर्मस्य; तथाभव्यत्वादेरकृत्रिमताख्यापनार्थं च सद्भाववाचको.भावशब्द इति ।
तथाभव्यत्वस्याऽनादित्वादेवाऽव्यवहारराशावपि वर्तमानानां जिनानां सर्वजीवेषूत्तमत्वं गीयते, स्तूयते च 'पुरुषोत्तमेभ्य' इतिपदेन तत एव शक्रस्तवे ।
अनादिस्वभावस्थं हि तथाविधं भव्यत्वं न शुद्धधर्मसम्प्राप्तिहेतोः पापविगमस्य कारणं, किन्त्वङ्कुर प्रति सोच्छूनतावस्थबीजवत् परिपाकमागतं ।
ततश्च तथाभव्यत्वस्य परिपाके ये हेतवस्ते ज्ञेया आचरणीयाश्चेत्याहुः प्रकरणकाराः । तस्स पुणः विवागसाहणाणि- . चउसरणंगमणं, दुक्कड गरिहा, सुकडाण सेवणं । अओ कायचमिणं होउकामेण सया सुप्पणिहाणं ।
भुजो भुज्जो संकिलेसे, तिकालमसंकिले से । अधिकाराऽन्तरताज्ञापनाय प्राग् 'एयस्स ण मित्यत्र 'ण' कारस्योपन्यासस्तथाऽत्र 'पुनः शब्दस्य शंकारस्यालङ्कृतवाक्यार्थ उपन्यासः । '
तत्र हि वाक्ये संवर-निर्जरा-मोक्षाणां सूचा । अत्र हि प्रागलब्धलाभस्य तथाभव्यत्वस्य परिपाकरूपस्येति 'पुनः' शब्दोपन्यास इति । .
शरणगमनोक्तेर्मङ्गलत्वं लोकोत्तमत्वं चानुगतमेव, निर्विघ्नमिष्टानां प्राप्ति-स्थैर्याऽविच्छेदकरत्वस्य लोकातिशायित्वस्य चानवगमे 'शरण' शब्दवाच्यभक्तिप्रताया असम्भवात् ।
अहंव्यतिरिक्तानां सर्वेषां केवल्यादीनामपि साधूनां साधुपदेन ग्रहः, आचार-विनय-सहायहेतूनामविवक्षणान्नाऽऽचार्याऽऽदयो भेदेनोक्ता इति ।
पर्युपास्यानां 'कल्लाणं मंगल' मित्यादिवचनात् पञ्चपरमेष्ठि-नमस्कारे गुणानां साक्षादनभिधानं गुणिद्वारैव ग्रहः, अत्र तु भक्तेराश्रयणाद् गुणरूपस्य धर्मस्य साक्षाद् ग्रह इति पदानां न्यूनाऽऽधिक्यविचारोऽत्र फलेग्रहिः। सर्वज्ञोक्ताश्चमे क्रम (!) (क्तश्चायंक्रमः ) इति आराधनासोपानान्येतानि चतुर्णा शरणस्याहदादीनां पुष्टालम्बनत्वात् संसारादुद्धर्तुकामानां ।
न च जैनं शासनं जिनेश्वराणामभीष्टस्तवाऽऽदिभिरुत्तमबोधिप्रार्थनावसानैर्मोक्षप्राप्तौ केवलैः कृतार्थ• तामानि, अतो दुष्कृतानां निन्दनं, सुकृतानां चानुमोदनं मते जैनेऽत्रावश्यकं ।