________________
(८)
पापकर्मणां भवस्य वा व्यवच्छित्तिप्रसङ्गादत्र क्षान्त्यादिको दशविधः स्वाख्यातधर्मो ग्राह्यः । सम्यग्दर्शन-ज्ञान-चारित्राणां तत्तत्प्रतिबन्धक-पापविच्छेदात्प्राप्यत्वेऽपि तेषां निःश्रेयसमार्गत्वादपवर्गेऽपि सत्त्वादुपादानकारणत्वात् ।।
किञ्च-तत्कारकभूतस्य पापकर्म-विगमस्य तथाभव्यत्वहेतुकत्वभणनात् मोक्षे च भव्यत्वस्यैऽवाभावादिति मोक्षमार्गत्वेन ख्याततया पापकर्मविलयतया(च) सम्यग्दर्शनादीनां शुद्धधर्मतया ग्रहेऽपि न काचिद्धानिः, न हि प्रकाश्याऽन्तरस्याभावे दीपस्य प्रकाशस्वभावो विलीयते इति ।
किञ्च-न सम्यग्दर्शन-ज्ञानयोः शुद्धधर्मेण प्राप्तिः ताभ्यां प्राग मिथ्यात्वाऽज्ञानयोरेव भावात् , प्रागपि तदुत्पत्तेस्तत्तत्क्षयोपशमादेर्भावात्तस्य शुद्धधर्मत्वेन ग्रहे वा न विरोधः ।
लौकिकानामुपकारक्षान्त्यादीनां निरासार्थ धर्मस्य 'शुद्ध' ति विशेषणं ।
" सुप्रणिधानयुक्त औचित्येन सततं सत्कार-विधिसेवित एव शुद्धधर्मः कुशलानुवन्धिनिर्जरामापक " इति प्राप्तिः विशिष्यते "संपत्ती"।
'सव्वेसिं सावगाण मुक्खसाहणजोगे' त्यादिवचनादनन्तानुबन्ध्यादि-विलयजन्या अपि क्षात्यादयो ग्राह्याः धर्माः, एकोनसप्तति-कोटाकोटि-सागरोपमाऽधिक-मोहस्थिति-क्षयप्राप्यत्वात्तेषामपि तथाभव्यत्वजन्य-पापकर्मविगम-जन्यता न विरुद्धेति ।
यद्यपि “आत्मनो भवकूपे पातनादवगुण्ठनाद्वा सर्वाणि कर्माण्येव पापं" तथाप्यत्र परिभापितं 'पाप' कर्म गृह्यते, तस्य शुद्धधर्म-सम्प्राप्तेः प्रतिवन्धकत्वात् , तद्विगमादेव च शुद्धधर्मसम्प्राप्तेर्भावादिति ।
'पापः पापेन कर्मणे' त्याद्युक्तेः पापशब्दस्य पापभूयिष्ठे प्राणिनि प्रवृत्तेः 'पापकर्म युक्तं । 'खेटं पापमपसद' मिति पापशब्दः सामान्येन नीचवाच्यपीति 'पापकर्म 'ति । सर्वेषां कर्मणामन्तःकोटीकोटीसागराऽधिकस्थितेः क्षयाय 'विगम' इति, तथा च विशिष्टो-शुद्धधर्मप्राप्तेरेनुगुणो नाशो ग्राह्यः, वेदनजन्य-पापकर्मनाशस्त्वशेपाणामसुमतामस्त्येवेति विशिष्टनाशग्रहणं ।
___ यद्यपि शुद्धधर्म-पापकर्मविगम-तारतम्यकारिण्येव कर्मविच्छित्ति-शुद्धधर्मसम्प्राप्तिलब्धिस्तथापि पञ्चमीकरणं "आत्माऽध्यवसायस्यैवाऽसाधारणकारणत्वेन साधकतमते" ति ज्ञापनार्थमिति ।
भव्यत्वं हि पारिणामिको भावः, जीवाऽजीवेषु जोवाऽजीवत्ववत्, नहि केनचिदौदयिकाऽऽदिना निर्वर्तितः, मुद्गराशौ कङ्कटुवत् , भव्यत्वं च मोक्षप्रापकधर्माहत्वं, तच्च सर्वेषां भव्यानां समानमेव । वीजोद्भवकारणता यथाऽङ्कुरे, यथा वा बीजेऽङ्कुरोद्भवकारणता, तच्च सर्वेषामेव भव्यानां समानमेव, परं काल-क्षेत्र-पुरुष-साधनप्रभृतिभिर्भेदैस्तीर्थकृद्-गणधर-मूककेवलिप्रभृतिहेतुरूपैः चिराऽऽपकालीनादिभिभैदैश्च वीज-सम्यक्त्व-चारित्र-मोक्षप्राप्तीनां वैचित्र्यात् , अनन्यनिबन्धनत्वाच्च तेषां प्रतिभव्यं यद् विचित्रभव्यत्वं तदेव तथाभव्यखमिति । .