________________
(७)
यच्च व्यवच्छेदप्राधान्येन व्याख्यानक्रिया कचित्तादृशे प्रसङ्गे सा न विक्षेपिका, परस्परं व्यवच्छेद्यव्यवच्छेदकत्वोक्तेर्गुणाऽधिकस्तुतावेव तस्यास्तात्पर्यात्, लोकोद्योतकव्याख्यावदिति ।
लौकिकानामपि कर्मसंयोग-तन्निर्वर्तितदुःखादि सम्मतमस्ति, तत एवं च विपाकक्षमाया लौकिकतयाssख्यानं सङ्गच्छते ।
एतावन्मात्रश्रद्धाने जीवास्तित्व-तन्नित्यत्व-कर्म कर्तृत्व-तद्भोक्तृत्वलक्षणानि चत्वार्यास्तिक्यस्थानान्यधिगतानि भवन्ति, तत्त्वेष्वपि जीवाऽ - जीवाss - श्रव-बन्धलक्षणानि तत्त्वानि समधिगतानि भवन्ति, परम् एतावानुपदेशः सिद्धानां जीव-कर्म-तत्संयोग-तजदुःखानां दर्शनपरः, यथा चादर्शे समं प्रतिबिम्बितं भवति, तथाऽत्र संसार प्रतिबिम्बितः परं हितोपदेशकता नैतावता पर्याप्यते, [[किन्तु ] उपादेयहेयानां पदार्थानां हेतु-स्वरूप - फलानुबन्धा चेत् (न) ज्ञाप्यन्ते, छद्मस्थज्ञानानां विशेषेग हेयोपादेय-हानोपादानप्रवृत्तिफलत्वात् । अत एव च जीवाऽजीवमात्रमनुक्त्वा शासने आश्रवादीनां मोक्षान्तानामुपदेशादि । अत एव भवस्य दुःखस्वरूपत्वाद्युक्त्वा हेयो- पादेयपदार्थ स्वरूपादिदर्शनार्थमाहएयस्स णं वोच्छित्ती सुद्धधम्माओ, सुद्धधम्मसंपत्ती पावकम्मविगमाओ, पावकम्मविगमो तहाभव्वत्ताहभावओ ।
एतदः प्रयोगात् एतस्य = दुःखस्वरूपादिभवस्येति यद्वा दुःखरूपादिकस्य भवस्यापि हेतुः कर्मसंयोग इति स एव प्रधान इति प्रधानस्य कर्मसंयोगस्यैतदा ग्रहणं, अतः सन्निकृष्टार्थकस्येदमो न प्रयोगः ।
ܕ
किञ्च-कर्मोच्छेद एव दुःखादिरूपस्य भेवस्यान्तः स्यात् उद्योतवत्, दीपादिद्वारोत्पाद-नाशौ यथोद्योतस्य न स्वयं, तद्वदत्र कर्मोत्पाद - नाशद्वारैव दुःखादिरूपस्य भवस्योत्पाद - नाशाविति । पापकर्मणो वियोगस्यैव शुद्धधर्मप्राप्तिहेतुतयाऽऽम्नायात् तथाभय्यत्वादेरपि (च) पापकर्मण एव व्युच्छित्तिभणनात् एतच्छब्देन भवाऽनुसन्धानं [तु] भवस्यैव दुःखरूपत्वादेरनुभवादनिष्टतानुसन्धानेन शुद्धधर्मप्रवृत्तावुत्साहस्य जननार्थं स्यात्, न च तदसम्बद्धमिति ।
6.46
77 46
विपाकोsनुभावः, ततश्च निर्जरे " ति ( श्री तत्त्वार्थसूत्र अध्याय ८ सू. ३२, ३४ ) ' कड(ण कम्माण ण मोक्खु अत्थि, गण्णत्थ वेयइत्ता तवसा (वा) झोसइत्ते ' (श्री दशवैकालिकसूत्र चू. १ ) ति च वचनात्, सर्वसंसारिणामनुक्षणं भोगेन क्षयभावेऽपि तत्क्षयस्य कर्मोंनुबन्धित्वादत्र निरनुबन्धी क्षयो यः सोऽनुसन्धेयः ।
भवस्य व्युच्छेदोऽपि सर्वसंसारस्य मरणपर्यवसानत्वादस्त्येव प्रतिभवं भवविच्छेदः, परं शुद्धधर्मसम्पाद्यो भवविच्छेदो भवान्तराऽननुबन्धीति भवान्तरानुबन्धी भवस्य विच्छेदो ग्राह्य इति ।
ર