________________
तेन कथञ्चिन्नित्यानित्य-भिन्नाभिन्नादिस्वरूपाणां कर्तृता-भोक्तृता-संसर्तत्व-मुक्तत्वादिधर्मविशिष्टानां जीवानामाख्यानं साधितं भवति । वीतरागाणां जन्माऽभावात्
अज्ञानपांशुपिहितं, पुरातनं कर्मबीजमविनाशि ।
तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ्कुरं जन्तोः ॥१॥ ( ) इतिवचनाच्च भवभावस्य कर्मसंयोगनिवर्तितता, भवश्वाध्यक्षमेव जन्म-जरा-रोग-शोकाऽऽधिमृत्यादिभिराकीर्णो निःसारोऽशरणश्चेति दुःखरूप एव । नायं विद्याध्ययन-धनार्जनाऽऽदिवद् धर्मानुष्ठानादिवचेत्याह-'दुःखफल' इति, यतोऽलब्धस्वाऽऽख्यातधर्माणो जीवा मिथ्यात्वाऽ-विरत्यादिपरिणामेन हिंसाद्याऽऽश्रवप्रवृत्त्या च दुर्गदुर्गति-दुःखफलक र इति तेषां दुःखफल एव भव इति ।
सातिचारधर्माऽऽचाराऽनुष्ठायिनां जीवानां कतिचिद् भवा अशुभा अनन्तरं भवन्त्येवातिचारफलभोगादन्वेव धर्मानुबन्धप्राप्तेरिति भवस्य दुःखफलताऽपीत्याह-दुःखानुवन्ध' इति । अप्राप्ताकलङ्कस्वाऽऽख्यातधर्माणां भवत्येवानवदग्रकालं यावदनन्तेषु भवेपु परिभ्रमणमिति तादृशां जीवानां भवो दुःखानुबन्ध एवेत्यत्र कोऽपि न विवाद इति ।
'तिकालमसंकिले से' इत्यन्तो जिनाख्यानानुवादग्रन्थः, परतस्तु विवरणग्रन्थ इति सम्भावना, तावता मूलरूपत्वादतीन्द्रियार्षदृग्वचनरूपत्वाच्च तथासम्भावना.
तथा च अत्र पापप्रतिघात-गुणबीजाधानाऽऽल्यस्याऽऽद्यसूत्रसमुदायस्येदमादिसूत्रं, . जैनं शासनं न निग्रहानुग्रहपरायणं, न चाऽऽदेशकं, किन्तु सूर्य-प्रदीपादिवदिह यथार्थतया पदार्थोपदेशकमिति जीवानामनादित्वाऽऽदिनिरूपणं । अनादित्वमनादिपर्यवसानपदार्थावलोकनपटुकेवलज्ञानज्ञापित, अन्यच्च तदभावे भवस्य कर्मणो वा निर्हेतुकतयाऽसम्भवः, बीजाङ्करवदनादिसन्ततिर्भवकर्मणोः, 'नाऽसतां प्रादुर्भावो द्रव्याणां, न च सतां नाश' इति जीवद्रव्याणां सिद्धेऽनादित्वे भव-कर्मसंयोगयोरनादित्वं स्वभावसिद्धं, सिद्धेश्वेतेपु च त्रिषु भवस्य दुःखरूप-फलाऽ-नुबन्धितानिर्धारणं न दुष्करं, तथा चैतच्छूद्धानसारमेव जैनशासनं.
एवं श्रद्धानं अनन्तानुबन्धिदर्शनमोहानां करणत्रयेण भेदे जाते एव सम्यक्त्वे एव भवति, परप्रवादिभिः कथञ्चिदनुकृत एतावानुपदेशः ।
ततश्च परप्रवादवासितान्तःकरणानामप्याऽऽदिधार्मिकाणामल्पायासेन स्वसमये आक्षेपः, "आदावाक्षेपिण्या एव प्रयोगो हितकर" इति तदुक्तिः, विक्षेपिण्यास्तु वैकल्पिकं हितं, तत एव च न कुदेव-नास्तिकाऽऽदीनां व्युदासोऽधिकृतः ।