________________
एकस्यैवार्हत एकदा भावे वक्तुरप्येकाकिन एव भावेऽपि यदत्र 'जे एवमाइक्खंती'ति बहुवचनं, तत् 'नानीदृशं कदाचिज्जगदि तिन्यायात् सर्वदा जगतो जीवादिमयत्वात् सर्वकालीना अपि भगवन्तोऽविषमरूपतयैव जीवादितत्वख्यायिन इति दर्शयित्वा सर्वक्षेत्र-कालभुवां मगवतामहतां समप्ररूपणा जीवादितत्त्वसङ्गतेति दर्शनार्थं ।
ततश्च न हि देश-क्षेत्रादिभेदेन जीवादीनां स्वरूपभेद इति साधितं । आदिधार्मिकाधिकारादेव 'आइक्खंती' त्येतावन्मात्रमेवोक्तं, न 'भासंति' प्रभृति ।
आख्यान-भाषण-प्रज्ञापना-प्ररूपण-दर्शनो-पदर्शनानामेवं भिदा-यथा धर्मो मङ्गलमित्याख्यानं, भावधर्मत्वादुत्कृष्टं मङ्गलमिति भाषणं, अहिंसा-संयम-तपांसि तद्भेदाः स्वरूपं चेति प्ररूपणा, साऽतिशया जगतां देवा इति जगत्प्रसिद्धिमनुसृत्य धर्माऽध्यवसायिभ्योऽपि सदा देवा नमस्यन्तीति प्रज्ञापना, 'जे लोए संति साहुणो' इत्युक्त्वा धर्माऽध्यवसायप्रधान-देवपूजास्पद-साधुसद्भावदर्शनं दर्शनं, पश्चात् 'तेण बुच्चंति साहुणो 'त्ति सर्वोपसंहारं कृत्वा कथाया विराम उपदर्शनमिति । अन्यत्राप्येतदनुसारेण बोध्यं बुद्धिमतेति ।
श्रोतृणां विशेषाऽवधानाय जीवानां वक्ष्यमाणस्वरूपेषु प्रागेव 'जे एव 'मित्याद्याख्यान, आदिधार्मिकत्वादेव नाऽऽदावावश्यकमपि जीवानां सत्त्वं प्रमाणाऽऽदिना साधितं, न च तेषामनादित्वाऽऽदिस्वरूपस्याऽपि प्रमाणाऽऽदि न्यस्तं, तेषां हि स्वभावत एव जीवानामस्तित्वाद्याऽऽगमगम्यमेव, तथा च
आगमगम्यानामपि सति दृष्टान्तसाध्यत्वे दृष्टान्तेन साधनमावश्यकं, एष एव चाराधनाविधिः कथाया इति । . सत्यपि दृष्टान्ते 'यो यथा बुध्यते जन्तु 'रित्युक्तिमाश्रित्यात्र जीवानामस्तित्वाऽनादित्वाऽsदिकमागमगम्यतयैव प्रतिपादितं, विचित्रत्वादादिधार्मिकाणां, यदि केषाञ्चित्तेषां स्याज्जीवानामस्तित्वादिसिद्धौ जिज्ञासा तदा साऽवश्यमेव पूरणीयेति ।
जीवानामस्तित्वसाधने आदान १-परिभोग २-योगो ३-पयोग ४-कषाय ५-लेश्या ६-श्वासे ७-न्द्रिय ८-बन्धो-दय-निर्जरा ९-लक्षणा हेतवः १-अयस्कार २:कूर ३-परश्व ४-ग्नि ५-सुवर्ण ६-क्षीर ७-नर ८ -वास्या ९-ऽऽहारलक्षणेदृष्टान्तैरुपबृंहिताः त्रिकालविषयबोधरूप-चित्तप्रत्यक्षरूप-चेतनाऽनुस्मरणरूप - सज्ञाऽनेकभेदविज्ञान - सङ्ख्येतरकालीनधारणा-ऽर्थो -हारूपबुद्धिचेष्टारूपेहा - ऽर्थावगमरूपभतिसम्भावनारूप-तर्करूप-जीवाऽ-भिन्नगुणरूपाणि साधनानि दर्शनीयानि ।
अहंप्रत्ययात् जीवविषयकसंशयात् शुद्धशब्दत्वात् प्रतिनियताकाशरीरविधानादपि जीवानामस्तित्वसाधनं । सत्त्वात् कारणाविभागात् कारणानाशाद कारणसस्वाच्च नित्यत्वं प्रसाध्य भवकारणपारम्पर्येण चाऽनादिभववत्ता साध्येति ।
आङ्गा ख्यातेविशिष्टता तु प्रमाणनयनिक्षेपसप्तभङ्गीसापेक्षं स्याद्वादमर्यादार्थकथनस्य ज्ञापना ।