________________
(४) " भाविज्जतं तु तंतणीईए । सइय-पुणवंधगाणं कुग्गहविरहं लहुं कुणइ"
इतिवचनात् सकृद्वन्धक-मार्गाभिमुख-मार्गपतित-मार्गानुसारिणां सर्वेषां तत्तन्त्रपरिभावनया कुग्रहविरहभावात् ।
न च वाक्यं वाच्यं यदुत-सकृबन्धकादेरादिधार्मिकतयोक्तिः सा बाधति (बाधते) यतः 'शेषस्याप्युपचारतः' इत्यस्य व्याख्यायां 'शेप' शब्देनाऽपुनर्बन्धकविलक्षण-सकृबन्धकादेरेव पूर्वसेवादावधिकारितया ग्रहणादिति आवश्यकमादिधार्मिकाणां शास्त्रसम्यक्वं तदर्थं च तत्तत्तन्त्रपरिभावनं, तन्त्राणां च शुद्धिर्वक्तृशुद्धिसाध्येति स भावार्हन्त्यनिबन्धना-ऽतिशयचतुष्टयवत्तया भगवतामहतां नमस्कारः ।
एवं च नात्र प्रेक्षापूर्वकप्रवृत्तिमतां हिताय कथयितुं योग्यस्यानुबन्धचतुष्टयस्यावयवरूपेण मङ्गलतयाऽयं नमस्कारः, किन्तु शास्त्रसम्यक्त्वार्थं तन्त्रपरिभावनस्याऽऽवश्यकत्वात् तद्वक्तृशुद्भिज्ञापनपूर्वक-भगवदहत्प्रणिधानार्थोऽयं नमस्कारः ।
अत एव च 'जे एवमाइक्खंती' त्येवंरूपमतनं यत्पदाङ्कितं प्रोक्तस्वरूप-भगवदर्हदुद्देशक सूत्रमिति ।
तथाच नैष समग्रप्रकरणस्य पापप्रतिघात-गुणबीजाऽऽधानरूपस्याद्यस्य सूत्रस्य वा मङ्गलार्थको नमस्कारः, किन्तु जीवस्यानादिकतादिप्रतिपादकतन्त्रस्य सम्यक्षरिभावनार्थं तद्वक्तृशुद्धिज्ञापनार्थोऽयं भगवदर्हत्स्वरूपनिरूपणपूर्वको नमस्कार इति, 'प्रमोदभावनास्थानमेवैतेऽर्हन्त' इत्यादरस्यावश्यकतादर्शनार्थं च नमस्कारः, गुणवदुपबृंहणादेरकरणस्यैव दर्शनाचाराऽतिक्रमणरूपत्वात् ,
___ तथाविधोऽपि कृतो नमस्कारः ‘एसो पंचणमुक्कारो' इत्यादिना सर्वपापनाश-प्रथममङ्गलहेतुतयाऽऽर्पसमाजे निश्चितत्वाद् विनविद्रावणे-ष्टसिद्धिहेतुर्भवत्येव, तथा कञ्चिदप्येकमर्थमाश्रित्य कृतो दीपोऽर्थान्तरप्रकाशनोपयोगी भवत्येव, तथा प्रमोदार्थकोऽप्येष नमस्कारो मङ्गलार्थको भवत्येव । .
'जे एवमाइक्खंती' तिनिर्देशाद् भगवदर्हत्स्वरूपझ्यापनार्थमेवैतत् सनमस्कारमपि सूत्रमिति धीधनैः सूक्ष्मधियोह्यमिति ।
तार्किकाणां वचनविश्वासेनैव वस्तुविश्वास इति सम्भवेऽपि यदत्रादौ वक्तुर्भक्त्युत्पादनाय विश्वासस्योत्पादस्तदादिधार्मिकत्वेन श्रद्धाप्रधानत्वात् , अत एव चोदेशात् प्रागनिर्देश इति ॥
एवं भगवत्स्वर्हत्सूत्पाद्य वक्तृपु विश्वासमथ तद्वचनमाह - मू० जे एचमाइक्खंति :
अणाई जीवे ! अणाई जीवस्स भवे !! अणाइ-कम्मसंजोग-णिव्वत्तिए !!! दुक्खरूवे ! दुक्खफले ! ! ! दुक्खाणुवंधे !! !