________________
(३) सर्वज्ञानामेव भगवतामर्हतामशेष-रूप्यरूपि-सूक्ष्मेतरा-न्तरितदूरादि-पदार्थानामलौकिकसर्वप्रत्यक्षेणावलोक्य देशनात् [वचनातिशयः ] सम्भवति, न शेषाणां, तथाज्ञानाभावादिति ।
न च वाच्यं 'यथास्थितवस्तुवादी' त्यन्त्येन भावार्हन्त्यनिबन्धनानां चतुर्णामपायापगमादीनां कीर्तनात् व्यर्थं त्रैलोक्यगुरुभ्य' इति पदमिति ।
यत एते भगवन्तो यथास्थितानि वस्तूनि स्वयं वदन्तोऽपि न केवलं समवसरेणमुपेतानामार्याणामेव धर्मदेशनां कुर्वन्ति, किन्त्वर्हन्नाम्न एव प्रभावतो वाणी भगवतामष्टादशदेशीभाषामिश्रतया स्वरूपेणार्धमागधभाषामथ्यपि सन्ती देवानां दैवीतया, अनार्याणामनार्यभाषातया, आर्याणामार्यभाषातया यावत्तिरश्चामपि तिर्यग्भाषातया परिणमति ।
तत एव जगदुद्धारकरणप्रवृत्तिर्जगद्गुरुता च भगवतामहतां भवति, ततश्च वस्तुतस्त एव त्रैलोक्यगुरवो, नापरे मृषाबिरुदधारिणः कतिचिन्नरमात्रावगम्यभाषाभाषका इति आवश्यकतैव 'त्रैलोक्यगुरुभ्य' इति पदस्य पञ्चमस्यापि, परं न तत् स्वतन्त्रोऽतिशयः, किन्तु यथावस्थितवस्तुवादिपदस्यालङ्कारभूतम् इति ।
___ वस्तुतस्तु 'रागाद्वा द्वेषाद्वे ' त्यादिवचनप्रामाण्यात् वीतराग-द्वेष-मोहानां वीतरागाणामेव सत्यवादित्वेऽधिकारः। - तत्रापि सार्वश्याऽभावे अलौकिकप्रत्यक्षगम्यानामात्मादीनामतीन्द्रियाणां मोक्षावसानानां वचनं स्वतन्त्रतयोच्यमानं न कदापि निश्चितसत्यं स्यात् , तत आवश्यकं सार्वश्यं, सत्यपि तस्मिन् आदेयता लोकानां तदैव स्याद् , यदा स्यात् इन्द्रादीनां पूजास्पदमिति कृतायां समवसरणरूपायां पूजायामवश्यमहन्तो देशयन्ति स्व-स्व-भाषागामिन्या भाषया धर्ममिति क्रम एषोऽविच्छेद्यो भावार्हन्त्यातिशयानामिति।
. प्रस्तुते पापप्रतिघात-गुणबीजाधानरूपे आये सूत्रे प्रायेणाऽऽदिधार्मिका एव 'सदन्धमार्गगमन' न्यायेनाऽधिकारिण इति तेषामित्थंभूतमेव प्रणिधानमादौ योग्यमिति स्पष्टतया भावाऽऽर्हन्त्यनिबन्धनमतिशयचतुष्कं गदितमिति ।
एवमादिधार्मिकाणां प्रणिधानस्यादाववश्यङ्करणीयत्वान्न क्रियापदेन क्त्वाऽन्ताऽययेन नमस्कारः, किन्तु द्रव्य-भावसङ्कोचवाचिना पूजार्थकेन नम इत्यव्ययेनैव । तथा च नेदं शिष्यशिक्षायै मङ्गलं, किन्तु ग्रन्थस्यादावाचरणाय मङ्गलस्येदं सूत्रं णमोत्थु णं' इत्यादितो 'अरिहंताणं भगवंताणं ' इत्यन्तमिति ।
यदि च स्यात् तेषां मोहनीयाऽपायानां स्वरूप-भेद-रोधादिषु, क्षपकश्रेणौ, ज्ञानानां स्वरूपे, केवलस्य सर्वद्रव्यादिविषयसकलस्पष्टप्रत्यक्षे, देवलोकतदधिपेन्द्र-तत्कृतभगवदर्हदतिशयसन्दोहस्वरूपे, जीवादीनां पदार्थानां यथार्थत्वे, तथाविधवादाय स्याद्वादस्य स्वरूपे, स्वस्वभाषापरिणामस्यावश्यकत्वे विशेषज्ञाने जिज्ञासा तदा तत्तत्पदार्थस्वरूप-निरूपकाणि तन्त्राणि तेषां तेषां श्राव्यानि । यतस्तथाविधतत्तत्तन्त्राणां सम्यक् परिभावनात् तेषां तेषां -