Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 62
________________ (२२) स किमिहाऽऽह इति शङ्कासमाधानाय शिक्षाप्रवण-शैक्षकवचनान्येवाऽऽहु:-'जावजीवं मे' इत्यादि । . नाऽविदितमेतद् विदुषां यदुत-"जन्म-जरा-मरणातमसारमात जगदशरणं समीक्ष्य श्रोताऽयमुद्विग्नः स्वतो भवाद्," तत एव च भगवद्भिरपि भवस्यैतस्याऽनादिता तद्वदनादिकर्मसंयोग-निवर्तितता चाऽऽख्याता, जीवस्याऽनादितायाः साधनमपि तादृशस्य दुःखमयस्याऽशरणस्य भवस्याऽनादितायाः साधारणार्थमेव, तथा चाऽभिसमीक्ष्य भवस्य तथाविधे दुःखमयत्वेऽप्यशरणतामवश्यं शरणमङ्गीचिकीर्षुः स्यात् , अत एव च श्रीमदर्हद्भिर्भगवद्भिरपि त्रयाणां कर्त्तव्यानामादौ शरणगमवस्त्वभिधानपदमानीतं, अत एव श्रोताऽइह -' यावज्जीवं मम शरणं भगवन्त' इति । तथा च " ज्ञातं मया निःसारं जगत् , अवबुद्धो मया जन्म-जरा-मरणाऽऽतिपूरितो भवःभीतोऽहं जन्मादि-महाव्यथापूर्णाद् संसारात्, न वीक्षितं पूर्णेऽपि जगति मम रक्षणे प्रवीणं (प्रवर्ण) किञ्चित् , अधुनैव च लब्धा भवत्राण-विधानवेधस एते, ततो निश्चलोऽहं जातोऽवधान एतस्मिन्" यदुक्तं"अनादिकालादलब्धपूर्वा एते शरणसमर्था अधिगता भगवन्त इति, न कदाप्येतान् मोक्ष्यामि, न च अन्यथाधीभूत्वा परान् शरणं श्रयिष्य " इति निश्चित्य चेतसेदमाह यदुत-" भगवन्तो यावज्जीवं मम शरणमिति ।" तथा चैतत् कालाऽवधारणं सातत्या, न भवान्तरे शरणस्य निषेधार्थ, तद्भावे तत्र तस्याऽपीष्टत्वादेव, भवान्तरभावस्याऽनिच्छनीयत्वाच्च न तत्र भाविशरणविचारः । यच्च ‘मे सेवा भवे भवे तुम्ह चलणाण' मितिपाठेन भवान्तरसेवना-प्राप्तिप्रार्थनं क्रियते, तन्न मुख्यवृत्त्या करणाहमिति तु तत्रस्येनैव 'वारिज्जइ जइवि नियाणवंधण' मित्यनेन स्पष्ट्यत एवेति “यावज्जीव "मिति योग्यमेवेति । आ-भवं न मुच्चाम्येतान् भगवतः, आजीवनमेतेषामेव भक्तो तत्परो भविष्यामि, न चान्यान् कानपि तथाविधान् सम्भावयामि यानाश्रितुमुन्मनाः कदाचिदपि भविष्यामीति अनन्यशरणतयैवैतान् मगवतो यावज्जीवमनन्यमना श्रयिष्यामीति ।. . . 'मे' इत्यस्मत्पदमसमानशरणाश्रयणद्योतनाथ । तथा च "अहमेवाऽसाधारणतया भगवतः श्रयामि, मद्विधः शरणं प्रतिपन्नो न कश्चिद् भवभ्रमणपीडापीडितः प्राणी" ति ज्ञापयत्यनेन । किश्च-भ्रान्तः पूर्व समस्तेऽपि जगति, परं न क्वोप्यात्मसाधनवार्ताऽपि याथातथ्येनोपलब्धा, सर्वेषामपरतीर्थीयानामर्थ-काम-स्वर्ग-भूतिकामनापराणां शरीर-तत्पोपणसाधन-स्थान-सन्तान-समृद्धि-समुदाय-प्रवर्तनादिष्वेव प्रयत्नशीलवदर्शनात् । सति चैवं ज्ञानाऽऽदीनामात्मस्वरूपभूतानामनाविर्भूतानामाविर्भवनयोगेन लब्धानामपि तेषां निष्प्रत्यूह रक्षणपरायणतया या नाथता लभ्या, तस्या स्वप्नोऽपि न तत्र ज्ञायते, तर्हि अत्र श्रीमदर्हतां भगवतां शासनं तु सदेवाऽसुरमनुष्यस्य लोकस्य त्रिलोकगतस्य

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193