________________
अयं परिग्रही यमी अपि निश्चयनयस्य विषयं यद् स्वीयम् अनिन्द्यं दिव्यम् अव्ययं द्रव्यं गृही इव वै न अयति ।
वै इत्यादि- अयमेष परिग्रही सग्रन्थो यमी मुनिरपि निश्चयनयस्य विषयं गोचरं यत् स्वीयं स्वकीयं अनिन्द्यं प्रशस्यं दिव्यमनुपमं अव्ययमनश्वरं द्रव्यं तद् गृहीव गृहस्थ इव वै निश्चयेन न अयति न प्राप्नोति। यथा सग्रन्थो गृहस्थः शुद्धबुद्धस्वभावं स्वात्मानं न लभते नानुभवति तथा सग्रन्थो मुनिरपि न लभते इत्यर्थः ।।१४।।
अर्थ- यह परिग्रहवान् मुनि भी निश्चयनय के विषयभूत, अनिन्दनीय, दिव्य और अविनाशी स्वकीय द्रव्य को गृहस्थ के समान प्राप्त नहीं होता। अर्थात् जिस प्रकार परिग्रही गृहस्थ शुद्ध आत्मा को प्राप्त नहीं होता, उसी प्रकार परिग्रही साधु भी नहीं प्राप्त होता।
भावार्थ- दीक्षा के समय परिग्रह का सर्वथा त्यागकर पश्चात् किसी कार्य के ब्याज से परिग्रह को स्वीकार करने वाला मुनि भी गृहस्थ के समान आत्मानुभव से वञ्चित रहता है ।।१४।।
[१५] अमन्दमनोमराल ! विविक्तविविधविकल्पवीचिजालम् ।
कलितवृषकमलनालं वित्-सरो मुक्त्वाऽन्येनालम् ।। अमन्दमनोमराल ! विविक्त-विविध-विकल्पवीचिजालं कलितवृषकमलनालं वित्सरः मुक्त्वा अन्येन अलम्।
अमन्देति- स्वीयं मनः सम्बोधयति कवि:-हे अमन्दमनोमराल! मन एव मरालो हंसो मनोमरालः अमन्दश्चासौ चपलश्चासौ मनोमरालश्चेति तत्सम्बुद्धौ । विविक्तविविधविकल्पवीचिजालं विविधविकल्पा एव वीचयस्तरङ्गास्तासां जालं समूहः विविक्तं रहितं विविधविकल्पवीचिजालं यस्मिन् तथाभूतं । कलितवृषकमलनालं कलितं धृतं वृषकमलस्य धर्मसरोजस्य नालं मृणालं यस्मिन् तत्। वित्सरो विदेव सरस्तं ज्ञानकासारं मुक्त्वा त्यक्त्वा अन्येन सरसा अलं व्यर्थमिति यावत्। ज्ञानसरोवर एव रमस्वेति भावः ।।१५।।
अर्थ- हे चञ्चलमनरूपी हंस! नाना विकल्परूपी तरङ्गों के जाल से रहित तथा धर्मरूप कमल की मृणालों से सहित जो ज्ञानरूपी सरोवर है उसे छोड़ अन्य सरोवर व्यर्थ हैं।।१५।।
(६)