________________
स्यतां त्यज्यताम् । निजभावना स्वस्वभावचिन्तनमुपास्यतां सेव्यतां क्रियतामित्यर्थः। यद् यस्मात् शिवाङ्गना मुक्त्यङ्गना भवन्तं त्वां अटेत् प्राप्नुयात्। इतीत्थम्। अमना भावमनोरहितः। जैनो जिन एव जैनः। प्राह प्रोवाच ।।९।।
अर्थ- हे साधो ! तुम्हे विषयवासना-इन्द्रियविषयों की अभिरुचि छोड़ देनी चाहिए और स्व-स्वरूप की भावना करना चाहिये, जिससे मुक्तिरूपी स्त्री तुझे वर सके, ऐसां भावमनरहित-केवलज्ञानी जिनदेव ने कहा है ।।९।।
[१०] श्रमैकफलारम्भतः पौद्गलिक-पुण्यपापोपलम्भतः ।
दृक्कथमुदेति हन्त ! नवनीतं नीरमन्थनतः ? ।। पौद्गलिक-पुण्यपापोपलम्भतः श्रमैकफलारम्भ : हन्त ! दृक् कथम् उदेति ? (किं) नीरमन्थनतः नवनीतम् (उदेति) ?
श्रमैकेति- हे मुने ! श्रमैकफलारम्भतः श्रम एवैकं फलं यस्य स श्रमैकफलः स चासावारम्भश्च तस्मात् खेदप्रदायक विविधकार्यप्रारम्भात् पौद्गलिक पुण्यपापोपलम्भतः पौद्गलिके पुद्गलाज्जाते ये पुण्यपापे सुकृतदुष्कृते तयोरुपलम्भता प्राप्तेः दृक् सम्यग्दर्शनं कथं उदेति उत्पद्यते हन्तेति खेदे। नीरमन्थनतः तोयमन्थनात् किं क्वापि नवनीतं प्राप्यते? अपि तु न प्राप्यते ।।१०।।
अर्थ- एक खेद ही जिसका फल है, ऐसे आरम्भ से तथा पौद्गलिक पुण्यपाप की प्राप्ति से सम्यग्दर्शन कैसे उत्पन्न हो सकता है ? खेद की बात है कि, क्या कहीं जल के मन्थन से मक्खन की प्राप्ति होती है ? अर्थात् नहीं ।।१०।।
। [११] स्वानुभवकरणपटवस्ते तान्विकतपस्तनूकृततनवः ।
विविक्तपटाश्च गुरवस्तिष्ठन्तु हृदि मे मुमुक्षवः ।। स्वानुभवकरणपटवः तान्विकतपस्तनूकृततनवः मुमुक्षवः विविक्तपटाश्च ते गुरवः मे हृदि तिष्ठन्तु ।
स्वानुभवेति- ये स्वानुभवकरणपटवः स्वस्यानुभवः स्वानुभवस्तस्य करणे पटवो निपुणाः सन्ति। ये तान्विकतपस्तनूकृततनवः तनौ भवं तान्विकं शारीरिकं यत्तपस्तेन तनूकृता तनुः शरीरं यैस्ते । ये विविक्तपटा विविक्तस्त्यक्तः पटो वस्त्रं यैस्ते निरम्बराः। ये र मुमुक्षवो मोक्षाभिलाषिणः सन्ति ते गुरवो मे मम स्तोतुः हृदि हृदये तिष्ठन्तु आसीना भवन्तु । तेषामहं प्रतिक्षणं ध्यानं करोमीति भावः ।।११।। अर्थ- जो स्वानुभाव के करने में निपुण हैं, जिनका शरीर, शारीरिक तप से कृश
. . . (७) ,