________________
अर्थ- मैं आत्मज्ञानरूप संपदा के लिए उन ज्ञानसागर आचार्य की पूजा करता हूँ। जो सदुपदेशी थे, शुद्ध आत्मस्वभाव में स्थित थे, प्रमादरहित थे और पापरूपी ग्रीष्म ऋतु की प्यासरूप विपत्ति को दूर करने के लिए शीतलजल थे ||४||
अये ! सरस्वति ! मातः संसारादहमतिभीतो मातः ।
विलम्बं कलय मा त उपासकं प्रपालय माऽतः ।। अये सरस्वति मातः अहं संसारात् मातः अतिभीतः अतः विलम्बं मा कलय, ते उपासकं मा (मां) प्रपालय।
___ अय इति-अये सरस्वति!मातःहे शारदे मातः अहं संसारात् मातःसंसाररूपाद् बन्धात्'माक्षेपे मानबन्धयोः' इति विश्वलोचनः।अतिभीतः सातिशयं त्रस्तोऽस्मि । अतो विलम्ब कालक्षेपं मा कलय नो कुरु। ते तव उपासकं सेवकं मा स्तोतारं 'त्वामौ द्वितीयायाः' इति सूत्रेण मामित्यस्य स्थाने मादेशः। प्रपालय प्रकर्षेण रक्ष ।।५।।
. अर्थ- हे सरस्वतिमातः ! मैं संसाररूप बंध से अत्यन्त भयभीत हूँ, अतः विलम्ब मत करो, अपने सेवक-गुझ की रक्षा करो ।।५।।
[६]
वच आश्रित्य साधु तां साधुनुतां साधुगुणपयसा धुताम् । ___ साधुतार्थमसाधुतां साधुरुपोज्झ्य वदे साधुताम् ।। साधुः (अहं) साधु-वचः आश्रित्य असाधुताम् उपोज्झ्य साधुतार्थं साधुनुतां साधुगुणपयसा धुतां तां साधुतां वदे । . वच इति- साधुर्मुनिरहम् । साधु समीचीनं वचो वचनमाश्रित्यावलम्ब्य । असाधुतां दुर्जनतां उपोज्झ्य त्यक्त्वा । साधुतार्थं साधुतायै इदमिति साधुतार्थं साधुतायाः प्राप्यै साधुनुतां साधुभिर्नुतां स्तुतां। साधुगुणपयसा साधूनां गुणाः साधुगुणा मुनीनां मूलगुणास्त एव पयो जलं तेन धुतां प्रक्षालितां तां प्रसिद्धां साधुतां साधोर्भावः साधुता तां श्रमणतां वदे संदिशामि कथयामीत्यर्थः। संदेशार्थत्वादात्मनेपदप्रयोगः । 'साधुर्वार्धषिके पुंसि चारुसज्जनयोस्त्रिषु' इति विश्वलोचनः। साधव: साधुतामङ्गीकुर्वन्त्विति भावनया जिनवचनानुसारं साधुतां वर्णयामीति भावः ।।६।।
अर्थ- मैं साधु-श्रेष्ठ वाणी का आश्रय लेकर तथा असाधुता-दुर्जनता को छोड़कर सज्जनों के द्वारा स्तुत और साधुओं के मूलगुणरूपी जल से धुली हुई उस साधुता का, साधुता की प्राप्ति के लिये कथन करता हूं ।।६।।