Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथां प्रभुः ॥९६॥ जातजातिस्मृतिः श्रुत्वा निजं पूर्वभवं पुनः । शूरसेनन रेशोऽलात्, सौभाग्यपञ्चमीत्रतम् ॥ ९७ ॥ शूरसेननृपो यावद्दशसहस्रवत्सरान् । राज्यं कृत्वा जिनाधीश-पार्श्वे संयममग्रहीत् ||१८|| सहस्रवत्सरं याव - दीक्षां पाल्य कर्मणाम् । क्षयं कृत्वा स उत्पाद्या-ऽन्तिमज्ञानं शिवं ययौ ॥ ९९ ॥ स गुणमञ्जरीजीवः, सुखं भुक्त्वा ततश्च्युतः । विजये रमणीयाख्ये, शुभङ्करा महापुरी ||१०० || अमरसेनभूपस्या-मरावतीमियोदरे । सुतत्वेन समुत्पन्नः, पूर्णे च समयेजनि ॥ १०१ ॥ युग्मम् ॥ पित्रा सुग्रीव इत्याख्या, दत्ता तस्य स यौवनं । प्राप्तस्तस्मै पुनर्भूरि, कन्याश्च परिणायिताः ॥१०२॥ तं विंशतितमे वर्षे, राज्यं दत्वा स्वयं नृपः । दीक्षां कलौ गुरोः पार्श्वे, वैराग्याश्चितमानसः ॥ १०३ ॥ अथ सुग्रीवभूपोऽपि यावत्मभूतवत्सरान्। राज्यं प्रपाल्य जग्राह प्रव्रज्यां गुरुसविधौ ॥ १०४ ॥ पूर्वलक्षं च चारित्रं, पाल्य वरकेवलं । ज्ञानमुत्वाय निर्वाणा -क्षयसुखञ्च सोऽन्वभूत् ॥ १०५ ॥ जायन्तेऽधिकसौख्यानि पञ्चम्याराधनान्नृणाम् । इत्यस्या अभिधा जज्ञे, लोके सौभाग्यपञ्चमी ॥ १०६ ॥ एवं विभाव्य भो भव्याः !, पञ्चम्याराधनोद्यमः । भवभीतिविभेदाय, कार्यों युष्माभिरतः ॥ १०७॥ इति कार्त्तिकसौभाग्य-पञ्चमीतपसोऽकथि । महात्म्ये वरदत्ता - ऽन्वितगुणमञ्जरीकथा || १०८ || क्षमाकल्याणकोषाध्या - यकृतगद्यसंस्कृतात् । श्लोकाः सन्दर्भिताः प्रेम - मुनिगणेः समाग्रहात् ॥ १०९ ॥ श्री जिनरत्नसूरीणा - माज्ञानुवर्त्तिना मया । पाठकलब्धिना संवद् - बाणखखाक्षि (२००५) वत्सरे ॥ ११० ॥ युग्मम् ॥ ॥ इति ज्ञानपञ्चमीकथा समाप्ता ॥ For Private and Personal Use Only ज्ञानपञ्चमी कथा || 6 ||

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 127