Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 98
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir नृपस्तेषां, फलं श्रुखा गुरोर्मुखात् । विहितानशनः पान्ते, स्वर्ग ययौ समाधिना ॥१०७॥ महाभारतशास्त्रादौ संवादरूपद्वादशपर्वकीर्तितम् । कलियुगस्वरूपं ही-त्थं प्रवदन्ति लौकिकाः ॥१०८॥ युधिष्ठिरोज्यदाऽरण्यं, गतो वृद्धां च तत्र माम् । I दीपमालिका कथा-संग्रह पर्व-कथा लघुगोस्तनपानं च, प्रकुर्वाणां स दृष्टवान् ॥१०९॥ स्वपार्श्वस्थो द्विजः पाह. राजन्नेतत्फलं शृणु । कलियुगे भविष्यन्ति, ॥ ९३ .IN हीनसत्त्वा जना भृशम् ॥११०॥ भरिष्यन्ति विना लक्ष्मी, दुःखार्ताः सुखलालसाः। स्वसुतां धनिनो दत्वा, धनं कात्वा निजोदरम् ॥१११॥ श्रुत्येति चलितो भूपो-ऽग्रेद्राक्षीत्सजळानि हि। समश्रेणिनिबद्धानि, त्रीणि सरोवराणि |च ॥११२॥ तत्राद्यसरसो नीर-मुच्छलन्मध्यमं सरः। त्यक्ता पतति रेऽपि, तृतीये च सरोवरे ॥११॥ न पतति द्वितीये तु, बिन्दुमात्रं जलं ततः। द्विजोऽवदत्फलं तेषां, शृणु तत्कारणं नृप ! ॥११४॥ यथाऽऽद्यसरसो नीरं, त्यक्त्वा द्वितीयकं सरः। प्रपतत्येकधारेण, तृतीये च सरोवरे ॥११५॥ तथाऽऽगामिक्षणे त्यक्ता, स्वस्थ सम्बन्धिनो जनान् । अन्यजनैः समं प्रीति, करिष्यन्ति जना नृप! ॥११६॥ अग्रे गच्छन्नृपोद्राक्षीत् , क्लिन्नां जलेन वालुकाम् । बहवो मनुजास्तस्या, रज्जूः कुर्वन्ति यत्नतः ॥११७॥ परं त्रुटति सा रज्जू-न तिष्ठति तदाऽवदत् । द्विजः कलियुगे राजन् !, महाक्लेशैश्च कर्षकाः ॥११८॥ धनमुपार्जयिष्यन्ति, राजचौरादिभीतितः। अन्यत्र गमनेऽप्येषां, नाशं यास्यति तद्धनम् ॥११९॥ युग्मम् ॥ ततो गच्छन्नृपोद्राक्षीत् , कूपपणालिका-जलम् । कूपे पतति विनोऽथा-वदददेतत्फलं शृणु ॥१२०॥ धनमुपार्जयिष्यन्ति, वाणिज्यकृषिकादिभिः । क्लेशाजना गृहीष्यन्ति, तत्सर्व राजभृत्यकाः ॥१२१॥ राजानः सद्युगे स्वस्य, धनं वितीय पुत्रवत् । स्वप्रजां पालयामासु, रक्षयामासुरापदः ॥१२२॥ कलिकाले तु भूमीशा:, पीडयिष्यन्ति च प्रजाम् । बलात्काराद् ग्रहीष्यन्ति, दुःखार्जितं प्रजाधनम् ॥१२३॥ अग्रे गच्छन्नृपोऽद्राक्षी-देकः कण्ट COMODEReDeveo DemoOC0Crococcore For Private and Personal Use Only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127