Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह ॥ ९९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्योतकारकाः || १९४ ॥ श्रीबप्पभट्टिसूरीशाः सर्वविद्याविशारदाः । भविष्यन्ति पुनश्चाम-भूपतिप्रतिबोधकाः ॥ १९५॥ कारयिष्यति भूपः स तद्वाक्याद् गोपपर्वते । अर्हचैत्यं च विस्तीर्ण, दर्शनीयं मनोरमम् ॥ १९६॥ सार्द्धत्रिकोटिसौवर्णदीनारद्रव्यनिर्मिताम् | जिनेन्द्रप्रतिमामाम- राजा संस्थापयिष्यति ॥ १९७॥ चान्द्रे कुले भविष्यन्ति, श्रीवर्द्धमानसूरयः । तच्छिष्याश्च महाप्राज्ञाः, श्रीजिनेश्वरसूरयः ॥ १९८ ॥ निरुद्धो वसतेर्मार्ग - इचैत्यमढ निवासिभिः । ये चैत्यवासिनो जिल्ला, दुर्लभराजसंसदि || १९९ || मार्ग वाचंयमानां हि तं वसतिनिवासिनाम् । ये प्रकटीकरिष्यन्ति, खेभखचन्द्र (१०८०) वत्सरे ||२००|| युग्मम् || ततश्च विहरिष्यन्ति सर्वत्रास्खलितत्वतः । संविज्ञाः साधवः सर्वे, स्वसाध्वाचार पाळका ॥ २०२ ॥ वादाच प्रतिवादाश्च, साध्वाचाराभिधायकान् । चैत्यस्यैः सूरिभिस्सार्द्धं विधाय राजसाक्षिकम् ॥ २०२ ॥ प्राप्स्यति बिरुदं सूरिः, खरतराभिधं ततः । खरतरगणोऽस्माच्च, सूरीशा निर्गमिष्यति ॥ २०३ ॥ अभयदेवसूरीशो, नवाङ्गवृत्तिकारकः + भावी स स्तम्भने पार्श्व-प्रतिमां प्रकटिष्यति || २०४ || जिनवल्लभसूरीश - स्वस्य शिष्यो भविष्यति ।
+ यतः प्रोक्तं- "पुरा श्रीपत्तने राज्यं, कुर्बाणे भीमभूपतौ । अभूवन् भूतले ख्याताः, श्रीजिनेश्वरसूरयः || १|| सूरयोऽभयदेवाख्यास्तेषां पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो गच्छः खरतराभिधः ||२|| ” इत्युपदेशसप्ततिकायां तपागच्छीयश्रीसो मधर्मगणिवरविहितायाम् । अत्र भीमभूपराज्यकर्तृत्वोक्तिस्तु सुचिरं राज्यशासनकालापेक्षिकेव, न तु वादकालापेक्षिका, न ह्यनेनास्तिस्वाभावमपि च सिद्धयति तस्मिन्समये दुर्लभराजस्य, अनिर्णीतत्वादवसानकालस्य तस्येतिहासविद्भिः ।
* श्रोजिनवल्लभसूरीशैरेव स्वयमुल्लिखितं तदीयोपसम्पद्ग्रहणं तेषामेव च सकाशे श्रुतग्रहणं, तथैव सद्गुरुत्वमपि तेषामेव, तथा हि- " लोकार्यकूर्च पुरगच्छमहाघनोत्थ- मुक्ताफलोज्ज्वल- जिनेश्वरसूरिशिष्यः । प्राप्तः प्रथां भुवि गणिजिनवल्लभोऽत्र, तस्यो
For Private and Personal Use Only
दीपमालिका पर्व- कथा
॥ ९९ ॥

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127