Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व कथा-संग्रह पर्व-कथा ॥ १०३ ॥ Tococceroeconomerande केचिदाचार्या, एतत्सममाणकम् । भरतैरवतक्षेत्र-दशसु कथयन्ति च ॥२४७॥ केचित्तु भरतक्षेत्र-पञ्चसु भरतेऽत्र च । केचित्तत्त्वं पुन नि-गम्यमित्यवगम्यते ॥२४८॥ दुष्पमापञ्चमारान्ते, स्वर्गाच्च्युखा भविष्यति। श्रीदुप्पसहसूरीशो, IN | हस्तद्वयशरीरकः ॥२४९॥ दशवकालिकावश्यक-जीतकल्पं च नन्दिकम् । पठिष्यत्यनुयोगद्वा-रं सूत्रपञ्चकं स च ॥२५०॥ N षष्ठोग्रतपः कर्त्ता च, युगवरः सुरैर्नतः । स च सूरिगृहस्थत्वे, यावद्द्वादशवत्सरम् ॥२५१ ॥ साधुत्वे च चतुर्वर्ष, सरित्वे वत्सरं चतुः। ऊषित्वा विंशति वर्ष, सर्वायुषं प्रपाल्य च ॥२५२॥ कुताष्टमतपाः पान्ते, काळं कृत्वा समाधिना। एक सिन्धूपमायुष्को, भविष्यति सुरोत्तमः ॥२५३॥ ततश्च्युखात्र मानुष्यं, सम्पाप्य क्षेत्रभारते । स च प्रपाल्य चारित्र-मपवर्ग गमिष्यति ॥२५॥ दुष्षमाख्यारकमान्ते, धर्मः श्रुतव्रतात्मकः। श्रीदुप्पसहसूरीशः, फल्गुश्रीरार्यिका पुनः ॥२५५॥ नागिलश्रावकः श्राद्धी, सत्यश्रीश्च चतुर्विधः। सङ्घोऽयं प्रथमे यामे, विच्छेदं यास्यति प्रभोः ॥२५६॥ विमलवाहनो भूपः, सुमुखो धीसखा पुनः । मध्याह्वेऽग्निश्च सन्ध्यायां, विच्छेदं च गमिष्यति ॥२५७॥ एकविंशतिसहस्र-वर्षमानश्च दुष्षमः । पञ्चमारश्च सम्पूर्णो, भविष्यति यदात्र च ॥२५८॥ तदा षष्ठारको नेष्टो, दुष्पमदुष्षमाभिधः । तावन्मात्रप्रमाणस्त-दधिकारोऽत उच्यते ॥ २५९ ॥ वासना धर्मतत्वस्य, गमिष्यति जनोऽखिलः । मातृपित्रादिमर्यादा-रहितश्च भविष्यति ॥२६०।। बहुधूलियुताऽनिष्टा, निष्ठुरा वायवः पुनः। प्रवास्यन्ति दिशाः सर्वाः, सधूम्रा च भविष्यति ॥२६१॥ वर्षिष्यन्ति च षष्ठारा-रम्भे सप्त धना इमे । भस्म-ग्रावा-नल-क्षार-विष-मलाख्यविद्युतः ॥२६२॥ एकैकोऽम्भोधरो यावत् , सप्तसप्तदिनानि च । मुशलधारया नित्यं, भस्मादि वर्षयिष्यति ॥२६३॥ 10 यैः काशश्वासशूलाच, कुष्ठज्वरजलोदराः । शिरोऽतिप्रमुखा रोगा, भविष्यन्त्यतिकष्टदाः ॥२६४॥ अङ्गारसदृशा भूमि pezoeaeroeezoeaeezaerzzaeezc ॥ १०३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127