Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ १०१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हुण्डावसर्पिण्यां, दुष्षमकालभावतः । निर्गमिष्यन्त्यनेकानि मतमतान्तराणि च ॥ २१४॥ स्वमतर सिकाः केचित् केचिदुत्सूत्रभाषिणः । भविष्यन्ति करिष्यन्ति, सूत्रोत्तीर्णी प्ररूपणाम् ॥ २१५ ॥ भविष्यन्ति पुनः केचिच्छिथिला : स्वक्रियादिषु । साधवश्च करिष्यन्त्य-सूयां ज्ञानक्रियावताम् ॥ २१६ ॥ ज्ञानवन्तः क्रियावन्त-वापि केचित्तु साधवः । कषाय बहुलाः क्लेशं करिष्यन्ति परस्परम् ॥ २१७|| लोभदशां गताः केऽपि, धारयिष्यन्ति साधवः । ज्ञानद्रव्यमिषाद्द्रव्यं, ज्ञानक्रियाधरा अपि ॥ २१८ ॥ पुनर्गौतम ! काळोsसौ, यथायथा गमिष्यति । तथातथा जनो नीच गामी कुसङ्गसङ्गतः ॥ २१९ ॥ कषाय बहुलश्चोप- कारादिधर्मवर्जितः । दाक्षिण्यरहितो वक्रः, परार्थादिविनाशकः ||२२०|| स्वजनमातृपित्रादि-द्वेषी स्वार्थप्रसाधकः । मिथ्यात्वमोहितः सारा-साराज्ञश्च भविष्यति || २२१ || त्रिभिर्विशेषकम् || महान्ति नगराण्यथ, ग्रामतुल्यानि दुष्षमे । श्मशानसदृशा ग्रामा, भविष्यन्ति भयङ्कराः || २२२ || भविष्यन्ति स्वमर्यादा- लज्जादिरहिता जनाः । धनEat aforeter, निर्धना दुःखपीडिताः ||२२३|| मर्यादारहिता भूपाः प्रजायाः पाळने पुनः । यमतुल्या भविष्यन्ति, प्रजापीडनतत्पराः ॥२२४॥ पुनर्देवा न दास्यन्ति, मनुष्याणां च दर्शनम् । भविष्यन्ति पुनर्जाति - स्मृत्यादिज्ञानमत्र न ||२२५|| बहवः प्राणिनो दुष्टा, भविष्यन्त्यधकारिणः । विघ्नसन्तोषिणो गाढ - रोषादिधारिणो मिथः ॥ २२६ ॥ धर्मिंजना भविष्यन्ति निर्द्धना दुःखिताः पुनः । सुखिनो धनिनः पापि जना बहुकुटुम्बिनः ॥ २२७ ॥ गौतम ! रम्यवस्तूनां हानिर्भूमौ प्रतिक्षणम् । मन्त्रयन्त्रौषधिज्ञान - विद्यारत्नधनायुषाम् ||२२८|| फलपुष्परसस्पर्श - गन्धरूपसुसम्पदाम् । संहननयशः कीर्त्ति - बलवीर्य सुकर्मणाम् || २२९|| गुणसत्यतपः शौच क्षमादीनां भविष्यति । अल्पफळा रसा नीरं, वनस्पतिव नीरसः ॥ २३०॥ त्रिभिर्विशेषकम् | हानिर्दुष्षमकालेऽस्मिन् भविष्यति दिने दिने । द्रव्याणां विद्यमानानां गुण
For Private and Personal Use Only
दीपमालिका पर्व- कथा
॥ १०१ ॥

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127