Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्यकथा-संग्रह
मालिका | पर्व-कथा
॥ १०४ ॥
भविष्यति जलादिभिः। नदीपर्वतगर्तादि-भूमिः समीभविष्यति ॥२६५॥ पुनदुःखेन तिर्यचो, जळस्थलखचारिणः । स्थास्यन्ति शीततापादि-पीडिता मांसभक्षिणः ॥२६६॥ क्षेत्रवाटीवनाराम-धान्यतरुतृणादिकः। सर्वो वनस्पति शं, यास्यति सर्वथा पुनः ॥२६७। वैताढ्यमृषभं कूट, गङ्गासिन्धुसरिद्वयम् । एतच्चतुष्टयं मुक्खा, सर्वः समो भविष्यति ॥२६८॥ भरतभूभविष्यति, क्लिन्नकर्दमभूमिभिः । ग्रावैः कचित्क्वचिच्चाति-संव्याप्ताऽत्यन्तदुर्गमा ॥२६९॥ हस्तदेहाः कठोराङ्गाः, कुवर्णा रोगपीडिताः। निष्ठुरवचना वस्त्र-रहिता अतिकोपनाः ॥२७०॥ चिपटनासिका लज्जा-रहिताः पशुवक्रियाः। निर्विका दयाहीना, भविष्यन्ति नराः स्त्रियः ॥२७१॥ युग्मम् ॥ नृणां विंशतिवर्षायुः, षोडशाब्दायुरत्र च । स्त्रीणां दुष्प्रसवा गर्भान् , पवर्षा स्त्रीर्घरिष्यति ॥२७२॥ शकटचक्रयोर्मध्य-भूप्रमाणं वहिष्यति । गङ्गासिन्धुसरिन्नीर, व्याप्त मत्स्यादिजन्तुभिः ॥२७॥ वैताठ्यपर्वतासन्न-नाभयतटावनौ । द्वासप्तति महादीर्घ-विस्तीर्णानि बिलानि च ॥२७॥ उत्तरदक्षिणाशायां, नद्योः प्रतितटं पुनः । नव नव बिलानि स्युः, सङ्कलने द्विसप्ततिः ॥२७५।। निवसिष्यन्ति तिर्यश्चो, मनुष्यास्तत्र दुःखिताः । बीजमात्राः सदा मत्स्या-दिमांसाहारकारिणः ॥ २७६ ॥ तदानीं मनुजा गङ्गा-सिन्ध्वोर्मत्स्यादिकं जलात् । कृष्णा दिननिशान्ते च, स्थले मोक्ष्यन्ति निघृणाः ॥ २७७ ॥ सूर्यतापेन पक्वांश्च, मोक्ष्यन्ते मच्छकच्छपान् । ते चान्यत्खाद्यवस्तूनि, तदानीं तत्र सन्ति न ॥२७८|| भरतैरवतेष्वेवं, दशक्षेत्रेषु दुष्षमः । दुष्पमदुष्षमश्चापि, कालः समो भविष्यति ॥२७९॥ षष्ठारानन्तरं काल, उत्सर्पिण्या भविष्यति । षष्टारकसमो भावा-तत्र च प्रथमारकः ॥२८०॥ भविष्यति द्वितीयारः प्रथमारे गते पुनः । पञ्चमारसमो वस्तु-तचोत्सर्पणभावतः ॥२८१॥ अथ प्रादुर्भविष्यन्ति, तस्यादौ सप्त सप्त हि । घलान् यावद्घनाः पञ्च, वर्षिष्यन्ति निरन्तरम् ॥ २८२॥
Popcocococope
10
Peeroen
For Private and Personal Use Only

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127