Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ८१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदाश्वेभभटा गन्तुं पुरो बभूवुरक्षमाः । तदाश्वर्य समालोक्या-मात्यं प्रति नृपोऽवदत् ॥ २२३ ॥ मन्त्रिन्नादसमः सौख्य-दायकोsन्यो न दृश्यते । यद्वशात्पशवोऽप्येते, जाता ईदृग्विमोहिताः || २२४ || वशीभवन्ति नादेन, भूपतिदेव - दानवाः । कामिन्याद्याश्च सर्वेऽपि मनुजाः पशवोऽपि च || २२५ || वयमपि ततश्चैत्ये, वन्दितुमृषभप्रभोः । यामस्तत्र गता एतद्-गीतकं शृणुमो वरम् ||२२६ ॥ इत्थमामन्त्र्य तद्गान - मोहितो भूपतिः समम् । मन्त्रिणा जिनचैत्यान्तर्गला चकार दर्शनम् ॥ २२७ ॥ स तत्र हस्तयोर्वीणां विभ्रत्यौ मधुरस्वरम् । गायन्त्यौ कामभार्येव, विलोक्य द्वे कुमारिके ||२२८|| स्नेहचक्षुर्विमुक्तैश्थ, विद्धः कामशरैर्नृपः । चिन्तयामास कस्येदं भार्याद्वयं भविष्यति ॥ २२९ ॥ युग्मम् ॥ ततो मुहुर्मुहुर्भूप-क्षुषी प्रक्षिपस्तयोः । प्रभुं प्रणम्य निःसृत्य, चैत्याद्वहिः समागताः ॥ २३०॥ तयोः कुलादिकं ज्ञातु. राज्ञाऽऽदिष्टश्च घीसखा । गत्वा पप्रच्छ हे कन्ये ! युवां के ? कः ? पतिर्द्वयोः ॥२३१॥ इहागमः ? किमर्थं हि चेति ताभ्यां तदाकथि । विद्याभृन्मणिचूडस्या-वां पुत्र्यौ स्वः कलारते ||२३२॥ युग्मम् || स्वतुल्यं पतिमावां चा-लभमाने पुरे पुरे । चैत्यानि वन्दमाने स्वं सफलं जन्म कुर्महे || २३३ || पुनर्नरभवः क्वेय-मयोध्याऽपि महापुरी । विद्यते तीर्थभूताऽऽदि - जिनकल्याणकत्वतः ॥ २३४ ॥ अतोऽत्रादिजिनं नन्तुं, चैत्ये भरतकारिते । अस्मदागमनं जातं, श्रुत्वेति घीसखाऽवदत् ॥ २३५॥ ऋषभस्वामिनः पौत्रो, भरतचक्रिणः सुतः । सौम्यः सर्वकलापूर्णो, बळवानस्ति सद्गुणो ॥ २३६ ॥ सार्द्धं सूर्ययशोराज्ञा, युवयोः सङ्गमोऽमुना । अस्तु श्रुत्वेत्यमात्यं ते, द्वे प्रोचतुश्च मायया ॥ २३७ ॥ स्वाधीनं पतिमावां हि, पतिमन्यं न कुर्वहे । ततोऽमात्यो नृपादेशा - ते कन्ये इत्यवोचत ||२३८ ॥ कुर्वाणो युवयोर्वाचमन्यथा भूपतिर्मया । वायैः श्रुत्वेति तत्रैव, भूपस्ते परिणिन्यतुः ॥ २३९ ॥ तयोः प्रीतिरसाकृष्ट-स्ताभ्यां समं च
For Private and Personal Use Only
पर्युषणाष्टाद्विका-कथा
॥ ८१ ॥

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127