Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
द्वादशपर्व
कथा-संग्रह
॥८
॥
DomeDomeReporn
मुपासकैः ॥२०५॥ तथाहि-अयोध्यायां महापुर्यों, सूर्ययशा नृपोऽअनि । स च त्रिखण्डभूस्वामी, नीतिज्ञोऽखण्ड
INपर्युषणाष्टाशासनः ॥२०६॥ इन्द्रदत्तशिरोरत्न (मुकुट )-प्रभावेण नृपोऽजनि । सुरसेव्यो जयश्रीस्तत् , पट्टराणी पतिव्रता ॥२०७॥
द्विका-कथा चतुष्पवर्वी विशेषेणा-ऽष्टमों चतुर्दशी नृपः । तपःपौषधाद्यैश्चा-राधयामास शक्तितः ॥२०८॥ जीवितादरवत्पा-दरोडस्त्यस्य च चेतसि । जीवितादपि तेनासौ, चतुष्पर्वाणि रक्षति ॥२०९॥ सौधर्मेन्द्रः सुधर्माख्य-सभासंस्थित एकदा । ज्ञानात्तनिश्चयं ज्ञात्वा, पाप महाचमत्कृति ॥२१०॥ तदा दृट्वोर्वशीदेव्य-कस्माच्छिरःप्रकम्पनम् । प्रोवाच साम्पतं स्वामिन् !, शिरःकम्पः कथं कृतः॥२११ ॥ तत्कारणं तु नैवात्र दृश्यतेऽय जगाद सः। ज्ञानान्मयाऽधुना पौत्रो, भरते ऋषभपभोः ॥२१२॥ भरतचक्रिणः पुत्रः, शूरः सूर्ययशा नृपः । अयोध्याधिपतिदृष्टः, सात्त्विकानां शिरोमणिः ॥२१३॥ युग्मम् ।। स चाष्टमी-चतुर्दश्योः , पर्वणस्तपसो नहि । चलति चाल्यमानोऽपि, कृतयत्नैः सुरैरपि ॥२१॥ निशम्यायोर्वशी शक्र-वचो विचार्य चेतसि । माह स्वामिनसि त्वं तु, युक्तायुक्तविचारकः ॥२१५॥ निश्चयं कि मनुष्येसु, श्लाघसे योऽनजीवकः । सप्तधातुकनिष्पन्न-देहो दुर्गन्धवासितः ॥२१६॥ स देवैरप्यचाल्योऽस्ति. कः श्रद्धातीति मत्कृतम् । गानं निशम्य केषां हि, यान्ति ! न विळयं गुणाः ॥२१७॥ गत्वा तत्र व्रतात्सयो, भ्रंशयिष्ये तमप्यहम् । विधायेति प्रतिज्ञा सा, रम्भया सममुवंशी ॥२१८॥ धारयन्ती स्वहस्तेन, वीणां दिवोऽवतीर्य च। अयोध्यानिकटोद्याने,
चैत्ये श्रीऋषमपभोः ॥२१९ ॥ मोहोत्पादकं रम्यं च, रूपं विधाय गायति। तद्गानमोहिता जाता, सर्पमृगादयोऽपि च ॥२२०॥ त्रिभिर्विशेषकम् ॥ निश्चलनयनास्तस्थुः, पाषाणघटिता इव । ते सर्वे प्राणिनस्तत्रै-वालेख्यलिखिता इव ॥२२१ ॥ इतः सूर्ययशा वाह-यित्वाऽश्वं वलितस्ततः। तयोर्मधुरगानस्य, ध्वनीन् शुश्राव तत्पथि ॥२२२॥
Documencememorn
|H८०॥
For Private and Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127