Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ८६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मया न्यगादि माहात्म्यं, श्रीपर्युषण पर्वणः ॥३०७॥ संवद्वाणखशून्याक्षि (२००५) - वत्सरे ज्येष्ठमेचके । एकादश्यां समाप्तं तचाजयमेरु दुर्गके ॥ ३०८ ॥
॥ इति पर्युषणाष्टाह्निका - व्याख्यानं समाप्तम् ॥
( १२ ) अथ दीपमालिका - पर्व - माहात्म्यम् ।
महावीरं जिनं नखा, तीर्थेश्वरं जगद्गुरुम् । श्री दीपमालिकापर्व - माहात्म्यं कथ्यते मया ॥१॥ अस्मिँश्च भरतक्षेत्रे, मध्यखण्डे हि माळवे । आसीदुज्जयिनीपुर्यो, सम्मति - नाम - भूपतिः ||२|| तत्रान्यदा श्रुताधाराः पूज्याः सुहस्तिसूरयः । जीवितस्वामिनं वीर - जिनं वन्दितुमागताः ॥ ३ ॥ तस्मिन्नवसरे राज-मार्गे यान्तं सुहस्तिनम् । सूरीश्वरं गवाक्षस्यो, दृष्ट्वा सम्प्रतिभूपतिः ॥ ४ ॥ जातिस्मरणभागू जात - स्तत उत्तीर्य भक्तितः । गत्वा प्रणम्य चावादीत्, कृत्वाऽअकिं गुरुं प्रति ॥ ५ ॥ युग्मम् ॥ स्वामिन् ! जानीथ ? मामेवं पृष्टेऽवदद्गुरुर्नृप । भवन्तं को न जानाति ?, जनख्यातं जनोत्तमम् ||६|| ततो राजाऽवदत्पूज्य !, विशेषेणोपलक्षितः ? । अहं न वेति पृच्छामि, भवन्तमुपकारिणम् ॥ ७ ॥ ततः श्रुतोपयोगेन, ज्ञात्वोचुः सूरयो नृप । त्वमभवश्च मच्छिष्यो, भवे पूर्व दिनावधि ||८|| दीक्षाप्रभावतो राजा, भवाञ्जात इहेदृशी । सम्पत्माप्ता त्वया सोऽथ, प्रहर्षितोऽवदद्गुरुम् ॥९॥ बुभुक्षितेन रहेन, मया
1
For Private and Personal Use Only
दीपमालिका पर्व- कथा
॥ ८६ ॥

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127