Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
रोहिणी पर्व कथा
॥ ४६॥
emperoecogeeaponerce
सुपत्तदाणं महग्धवियं ॥२७॥ रिसहेससम पत्तं, निरवज इक्खुरससम दाणं । सेयंससमो भावो. हविज्ज जइ मग्गिअं हुजा ॥२८॥” ततः श्रेयांसतो जातं, प्रभोः पारणकं शुभम् । लोकैतिश्च सर्वत्रा-हारदानादिको विधिः ॥२९॥ वर्ष यावत्प्रभोः पूर्व-बद्धकर्मोदयागतात् । आहारो मिलितो नैव, तत्कारणं निगद्यते ॥३०॥ कस्मिंश्चित्पाग्भवे स्वामि| जीवो मनुष्यतां गतः । तत्रैकदा च कार्याय, ग्रामान्तरं ययौ स च ॥३१॥ अध्वनि गच्छता तेन, वृषभान् भ्रमतः
खले । भक्षयतश्च धान्यानि, कुट्टयन्कर्षकोऽकथि ॥३२॥ भो ! वृषभमुखे छिक्की, बध्नासि ? त्वं कथं नहि । उक्तं तेनाऽथ जानामि, डिक्की कर्त्तमहं नहि ॥३३॥ ततश्छिकी विधायको, तदुपदेशोऽपितस्तदा । श्रुत्वाऽमोचि निःस्वास
चतुःशतं वृषस्तदा ॥३४॥ कर्मणि ह्युदिते तस्मिन् , भवेत्रादिजिनेश्वरः । वर्ष यावनिराहार-त्वेनादीनमनाः स्थितः | ॥३५॥ तस्मिंश्च कर्मणि क्षीणे, चेक्षुरसेन पारणम् । स्वामिना शुद्धमानेन, चक्रे श्रेयांससद्मनि ॥३६॥ एकसहस्रवर्षाणि,
छद्मस्थत्वे विहृत्य च । तपसा हतवान्स्वामी, घातिकर्मचतुष्टयम् ॥३७॥ जातं फाल्गुनकृष्णका-दश्यां श्रीऋषभप्रभोः। वराऽनुत्तरसंपूर्ण, केवलज्ञानदर्शनम् ॥ ३८॥ श्रीचतुर्विधसङ्घस्य, स्थापना प्रभुणा कृता । विहृत्य भूतले भव्य-जीवा धर्मे नियोजिताः ॥३९॥ माघकृष्णत्रयोदश्यां, निर्वाणं गतवान्प्रभुः । तृतीयकारकमान्ते-अष्टापदाभिधपर्वते ॥४०॥ प्रारभ्यते च वर्षीय-तप इदं शिवप्रदम् । चैत्रकृष्णाऽष्टमीस्वामि-दीक्षाकल्याणकदिनात् ॥४१॥ समाप्यते च वैशाखशुक्लाऽक्षयतृतीयके । वासरे तत्तपश्चक्षु-रसपारणपूर्वकम् ॥४२॥ एकान्तरोपवासानि, चास्मिस्तपस्यखण्डितम् । निरन्तरं विधीयन्ते, मोक्षाभिलाषिजन्तुभिः ॥४३॥ इदं वर्षितपः पूर्ण, द्विवारकरणाद्भवेत् । वर्षितपोद्वये चोप-वासचतुःशतं भवेत् ॥४४॥ दीक्षादिनात्समारभ्य, यावत्पारणवासरे। अभवदुपवासानां, चतुःशतं जिनेशितुः ॥ ४५ ॥ अत्रैतदुपवासानां,
Peacocccccccmance
॥४६॥
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127