Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ६३ ॥
YAYA
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोभक्षणं कार्यं -मावश्यकमुपासकैः । आत्मवतातिचाराणां, शुद्धयर्थे तत्फलं यथा || १४६ || " आवस्सरण एएण, साओ जइ वि बहुरओ होइ । दुक्खाणमंतक्रिरियं, काही अचिरेण कालेन || १४७ || आवस्सयं उभयकालं, ओसदमिव जे करंति उज्जुत्ता । जिणविज्जकद्दियविहिणा, अकम्मरोगा य ते हुँति || १४८|| " साजणसिंहकद्भव्ये - विधातव्यः प्रतिक्रमः । स न भुङ्क्ते द्विसन्ध्यं हि प्रतिक्रमक्रियां विना ॥ १४९ ॥ पीरोजपातशाहेन, क्षिप्तः कारागृहेऽन्यदा । केनचिदपराधेन, स च श्रेष्ठी विशुद्धधीः || १५० ॥ तेन तत्र स्थितेनाथा - रक्षकेभ्यो वितीर्य च । हेमनिष्काश्च पञ्चाशपञ्चाशत्प्रमितान्सदा ॥ १५१ ॥ शृङ्खलया विमुक्तेन प्रतिक्रमो विधीयते । रत्नद्वयं समायात मन्यदा राजसंसदि ॥ १५२ ॥ श्रेष्ठिनं पातशाहेना - कार्य रत्ने प्रदर्शिते । ते परीक्ष्यावदच्छ्रेष्ठी, महार्घेऽस्त इमेऽत्र हि ॥ १५३ ॥ युग्मम् ॥ तृतीयं रत्नमत्रास्ति, भवानिति प्रकीर्त्तनात् । साहिना प्रेषितः श्रेष्ठो, गृहे सम्मानपूर्वकम् ॥ १५४ ॥ आरक्षकैस्तदा भीतैः, पश्चानिकाः समर्पिताः । ततस्ते श्रेष्ठिना निष्कास्तेभ्य एव समर्पिताः ॥ १५५ ॥ तेन चोक्तं कियन्मात्रमेतद्धनं यतो मया । आवश्यकं कृतं युष्मत् साहाय्यादतिदुर्लभम् || १५६ ॥ पुष्टिं करोति धर्मस्य, तत्पौषधं चतुर्विधम् । आहारतनुमत्कार - व्यापाराब्रह्मवर्जनम् || १५७|| धर्माभिलाषुभिः श्राद्धैः कार्यं पर्वणि पौषधम् । अवश्यं कामदेवादि श्राद्धतत्फलं यथा ।। १५८ ॥ " पौसहियसुहे भावे, असुहाई खवेइ नत्थि संदेहो । छिंदs निरयतिरियगई, पोसह विहिअप्पमत्तेणं ॥१५९॥” अन्यदा कामदेवाख्यः, श्रावकः पौषधे स्थितः । रात्रौ मिथ्यात्विदेवेन धर्माच्चालयितुं च तम् ॥१६०॥ गजनागपिशाचादि-रूपैः स उपसर्गितः । तथाऽपि क्षुभितो नैव, त्रिभियोगैर्मनागपि ॥ १६१ ॥ युग्मम् ॥ श्राद्धैर्जिनेन्द्रविम्बस्या-टद्रव्यैर्वरपूजनम् । अस्मिन्पर्वणि कर्त्तव्यं, स्वशक्त्या तत्फलं यथा ।। १६२ " सयं पमज्जणे पुन्नं,
For Private and Personal Use Only
चातुर्मासी पर्व कथा
॥ ६३ ॥

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127