Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ १७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वश्यकादीनि, सूत्राणि कार्मिकाणि च ॥ ४३ ॥ श्रीकान्ताख्या पुनः पद्मा, लक्ष्मीर्गङ्गाभिघा पुनः । पद्मलताभिधा तारा, रंभा गोरी च पद्मनि ॥ ४४ ॥ गांगेया रतिनाम्नीति, महेम्यव्यवहारिणाम् । एकादश सुतास्तस्मै, पित्रा च परिणायिताः ॥ ४५ ॥ रूपलावण्ययुक्ताभिः ताभिः सार्द्धं स सुव्रतः । भुञ्जानो विविधान् भोगान, दोगुंदसुवद्बभौ ||४६ ॥ समारोप्यान्यदा श्रेष्ठी, गृहभारं सुते स्वयम् । ललौ दीक्षां गुरोः पार्श्वे, स्वपरक्षेमकारिणीम् ॥ ४७ ॥ सम्यक्प्रपाल्य चारित्रं कृत्वान्तेऽनशनं पुनः । मृत्वा समाधिना स्वर्ग, प्राप्तो वाचंयमः स च ॥ ४८ ॥ अथाऽभूत्सुव्रतः श्रेष्ठी, तेन च पूर्वजन्मनि । सम्यगाराधिता मार्ग-धवलैकादशीतिथिः ॥ ४९ ॥ तेन चैकादशस्वर्ण- कोटिस्वामी स चाऽजनि । कालं निनाय सौख्येन धर्मकर्मपरायणः ॥ ५० ॥ तथैकैक प्रिये केक - पुत्रत्वेन गुणाकराः । सर्वत्र विश्रुताः जाता|स्तस्यैकादश सूनवः ॥ ५१ ॥ तेषाञ्च परिवारोऽपि विपुलोऽजन्यथैकदा । पुरोधाने समायाता, धर्मघोषमुनीश्वराः ॥ ५२ ॥ गता राजादयस्तत्र, सुव्रत वंदितुं ययौ । तदानीं गुरुणाऽप्येषां तपसो महिमा कथि ॥५२॥ यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥५४॥ पञ्चमीतपसा तत्रा-ज्वाप्यते ज्ञानपञ्चकम् । अमीता कर्मा निषूदनं भवेत् ||५५|| एकादशी तपस्यैका - दशाङ्गावगमः सुखात् । चतुर्दशीतपस्यातः, सर्वपूर्वागमो भवेत् ॥ ५६ ॥ पूर्णिमातपसा सर्व सिद्धान्तावगमो भवेत् । चतुर्दश्यष्टमीराका - ऽमावास्या चरणात्मिका ॥५७॥ ज्ञानात्मिका द्वितीया च पञ्चम्यैकादशीतिथिः । सर्वा परा तिथिज्ञेया, दर्शनशुद्धिकारिका ॥ ५८ ॥ ज्ञान-दर्शनचारित्र-शुद्धिखाप्यते जनैः । तपस्याराधिताभिश्रो -क्तसर्वतिथिभिः पुनः ॥ ५९ ॥ श्रुत्वैव सुव्रतश्रेष्ठी, जातिस्मृतिमवाप सः। प्राग्भवे तेन विज्ञातं स्वकृतैकादशी व्रतम् ||६०|| पुनरपि गुरोः पार्श्वे, सोऽकादाजन्म तद्व्रतम् । गुरुः प्राह For Private and Personal Use Only मौनएकादशी पर्व- कथा ॥ १७ ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127