Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir होलिका पर्व-कथा ॥ ३८ ॥ आप II भवनं काष्ठ-क्षेपे वारसहस्रशः। तद्वतकरणे म्लेच्छो-त्पत्तिर्वारसहस्रशः ॥ ८३ ॥ चाण्डालीयकुलोत्पत्ति-स्तद्दाहरणे कथा-संग्रह पुनः । वारसहस्रशः पर्वा-स्तीदं कर्मनिबन्धनम् ॥ ८४ ॥ विज्ञाय केवलं पापं, श्रेयोऽथिभिश्च जन्तुभिः । द्रव्यतो होलिकापर्व, संत्याज्य दूरत इदम् ॥४५॥ एवमाराध्यते भाव-होलिकापर्व धर्मिभिः । तेनाऽत्र जगतीष्टार्थ, पाप्यतेऽत्र न संशयः ॥८६॥ अन्याऽपि होलिका जाता, वसंतपुरपत्तने । विप्रकुलोद्भवा रूप-लावण्यगुणशालिनी ॥ ८७॥ देवशर्मा पिता यस्या, देवानन्दा प्रसः पुनः । पञ्च सहोदरा आसन् , सौम्याकाराश्च पण्डिताः ॥८८॥ साऽजनि होलिका बाल-भावतो व्यभिचारिणी। परदेशीयविप्राय, पितृभ्यां सा विवाहिता ॥ ८९ ॥ तत्रापि पुंश्चलित्वेन, पत्या निष्कासिता च सा। पितृगृहे समागत्य, स्वप्रवृत्ति न मुञ्चति ॥९०॥ तदा सा भ्रातृभिः सार्दै, पुराब्दहिः कृता द्विजैः । पुराब्दहि गृहं कृत्वा, स्थिता सा भ्रातृभिः समम् ॥९१॥ युवानः सर्ववर्णीयाः, सेवन्ते तत्र तां ततः । लौकै राजाज्ञया दग्धा, सगृहभ्रातृहोलिका ॥१२॥ ततो मृत्वा च ते सर्वे, बभूवुर्ब्रह्मराक्षसाः । तैरिणादिना पौर-जना उपद्रुता भृशम् ॥९३॥ स्वजीवनार्थिनो लोका, जातास्तेषां प्रजल्पनात् । पूर्ववद्भरहा भाण्डा, प्रथिलाऽसभ्यवादिनः ॥९४॥ ततः. समग्रदेशेषु. होलिपर्व ससर्प तत् । प्रतिपुरं प्रतिग्राम, प्रतिस्थानं प्रतिस्थलम् ॥ ९५॥ कौकिकहोलिका द्रव्य-पर्व विहाय भो ! जनाः। लोकोत्तरचतुर्मासि, सत्पाराधयन्तु हि ॥१६॥ खरतरगणाधीशः, श्रीमोहनमुनीश्वरः । तच्छिष्योऽमळचारित्री, श्रीमद्राजमुनीश्वरः ॥९७॥ तच्छिष्याऽऽद्या महापाज्ञाः, श्रीजिनरत्नसूरयः। तेषां शिष्यगणिप्रेममुनेः समाग्रहेण च ॥९८॥ संवब्दाणाभ्रशून्याक्षि-वर्षे पौषार्जुने कृता । पाठकलब्धिनाऽष्टम्यां, तिथौ जयपुरे वरे ॥१९॥ ॥ इति होलिका-पर्व-कथा समाप्ता॥ CRPorocc00CDecemecope orpormcomcommama For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127