Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
11 30 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मणा । मम सुतोऽभवत्पगु- स्तत्प्राग्भत्रमव मुनिः ॥ ४७ ॥ बभूव जम्बूद्वीपस्य, क्षेत्रे चैवताभिधे । श्री अचलपुरे दंगे, महेन्द्रध्वजभूपतिः ॥४८॥ तस्याऽभूदुमया राज्ञी, सामन्तसिंहसंज्ञकः । तत्पुत्रो द्यूतकृत्संगा-तेन द्यूतं च शिक्षितम् ॥ ४९ ॥ स सप्तव्यसनी जातः क्रमान्निषेधितोऽपि सः । नृपेण व्यसनान्नैव विरमति कदाचन ॥ ५० ॥ तमयोग्यं नृपो ज्ञात्वा स्वदेशान्निरवासयत् । ततो देशाटनं कुर्वन् सुरपुरं समाययौ ॥ ५१ ॥ चम्पकश्रेष्ठिना तत्रा - ईचैत्यरक्षणाय सः | स्थापितो मंदिरे चौर्य, कृत्वा द्यूतं च खेलते ॥ ५२|| तज्ज्ञात्वा श्रेष्ठिना प्रोक्तं, भद्र ! यो मक्षयेत्पुमान् । देवद्रव्यं स चाऽनंत कालं यावद्भवेति ॥ ५३ ॥ तस्मादतः परं कार्य, न कर्त्तव्यमिदं त्वया । इत्थं स उपदिष्टोऽपि, शिक्षां न मनुते हिताम् ॥ ५४ ॥ तेनैकदा जिनच्छत्रा - दिकं लात्वा च सेवितः । अनाचारस्ततो ज्ञात्वा श्रेष्ठिना कर्षितः सच ॥५५॥ सोऽथाखेटकसंगेन, बने भ्रमन् मृगादिकान् । मारयित्वा बहून् जीवान् चकारोदरपूर्तिकम् ॥५६॥ तस्मिन् वने तपस्यति, तापसास्तापसाश्रमे । तत्र मृगाः समागत्यो पविशंति च निर्भयाः ॥ ५७ ॥ तेन सामंतसिंहेन, तत्रायान्ती मृगी हता । सगर्भा तीक्ष्णशस्त्रेण, छिन्नास्तस्याश्चतुष्पदाः ॥ ५८ ॥ भूमौ सा पतिता दृष्टा, तापसैर्निकषाश्रमम् | तैस्तस्याः श्रावितो धर्मः, सा तदा सद्गतिं ययौ ॥ ५९ ॥ दुष्ट ! यथा त्वया मृग्याः पादाछिन्ना भवान्तरे । भूयात्पंगुस्तथा त्वं ही- ति तस्मै सशपुच ते ॥ ६० ॥ ततः सामंतसिंहोऽपि दृष्ट्वा क्रुद्रांश्व तापसान् । वने नश्यंश्च सिंहेन, मारितो नरकं ययौ ॥ ६१ ॥ सामन्तसिंह जीवोऽथो दूधृत्य ततश्चकार सः । बहूनरकतिर्यक्षु. महादुःखमयान् भवान् ॥६२॥ ततो महाविदेहे स, कुसुमपुरपुर्वरे । विशालकीर्त्तिभूपस्य, शिवादस्याः सुतोऽजनि ॥ ६३ ॥ वज्रनामा क्रमात्सोऽभूद्-गलत्कुष्ठी च यौवने । गळितौ च करौ पादौ, दुःखी स पंगुतां गतः ॥ ६४ ॥ मात्रा
For Private and Personal Use Only
मेरुत्रयोदशी पर्व- कथा
॥ ३० ॥

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127