________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथां प्रभुः ॥९६॥ जातजातिस्मृतिः श्रुत्वा निजं पूर्वभवं पुनः । शूरसेनन रेशोऽलात्, सौभाग्यपञ्चमीत्रतम् ॥ ९७ ॥ शूरसेननृपो यावद्दशसहस्रवत्सरान् । राज्यं कृत्वा जिनाधीश-पार्श्वे संयममग्रहीत् ||१८|| सहस्रवत्सरं याव - दीक्षां पाल्य कर्मणाम् । क्षयं कृत्वा स उत्पाद्या-ऽन्तिमज्ञानं शिवं ययौ ॥ ९९ ॥ स गुणमञ्जरीजीवः, सुखं भुक्त्वा ततश्च्युतः । विजये रमणीयाख्ये, शुभङ्करा महापुरी ||१०० || अमरसेनभूपस्या-मरावतीमियोदरे । सुतत्वेन समुत्पन्नः, पूर्णे च समयेजनि ॥ १०१ ॥ युग्मम् ॥ पित्रा सुग्रीव इत्याख्या, दत्ता तस्य स यौवनं । प्राप्तस्तस्मै पुनर्भूरि, कन्याश्च परिणायिताः ॥१०२॥ तं विंशतितमे वर्षे, राज्यं दत्वा स्वयं नृपः । दीक्षां कलौ गुरोः पार्श्वे, वैराग्याश्चितमानसः ॥ १०३ ॥ अथ सुग्रीवभूपोऽपि यावत्मभूतवत्सरान्। राज्यं प्रपाल्य जग्राह प्रव्रज्यां गुरुसविधौ ॥ १०४ ॥ पूर्वलक्षं च चारित्रं, पाल्य वरकेवलं । ज्ञानमुत्वाय निर्वाणा -क्षयसुखञ्च सोऽन्वभूत् ॥ १०५ ॥ जायन्तेऽधिकसौख्यानि पञ्चम्याराधनान्नृणाम् । इत्यस्या अभिधा जज्ञे, लोके सौभाग्यपञ्चमी ॥ १०६ ॥ एवं विभाव्य भो भव्याः !, पञ्चम्याराधनोद्यमः । भवभीतिविभेदाय, कार्यों युष्माभिरतः ॥ १०७॥ इति कार्त्तिकसौभाग्य-पञ्चमीतपसोऽकथि । महात्म्ये वरदत्ता - ऽन्वितगुणमञ्जरीकथा || १०८ || क्षमाकल्याणकोषाध्या - यकृतगद्यसंस्कृतात् । श्लोकाः सन्दर्भिताः प्रेम - मुनिगणेः समाग्रहात् ॥ १०९ ॥ श्री जिनरत्नसूरीणा - माज्ञानुवर्त्तिना मया । पाठकलब्धिना संवद् - बाणखखाक्षि (२००५) वत्सरे ॥ ११० ॥ युग्मम् ॥
॥ इति ज्ञानपञ्चमीकथा समाप्ता ॥
For Private and Personal Use Only
ज्ञानपञ्चमी कथा
|| 6 ||