Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 247
________________ 10 15 ४५८ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ कर्कशक्षेत्रादायाताः ये वा रूक्षाहारभोजित्वाद् दुर्बलाः, एते एकं वा द्वौ वा त्रीन् वा दिवसान् तस्मिन् ग्रामे 'उषित्वा' स्थित्वा 'आप्यायिताः' मनोज्ञाहारैः स्वस्थीभूताः अपरं ग्रामं व्रजन्ति ॥ १५५६ ॥ इदमेव भावयति पढमदिणे समणुण्णा, सोहीवुड्डी अकारणे परतो। तिनि व (वि) समगुन्नाया, तओ परेणं भवे सोही ।। १५५७ ।। प्रथमदिने तत्र ग्रामे वसतां समनुज्ञा, प्रथमो दिवसस्तत्रानुज्ञात इति भावः । ततः 'परतः' द्वितीयादिदिवसेष्वकारणे वसतां शोधिः-प्रायश्चित्तं तस्या वृद्धिर्भवति । सा चानन्तरगाथायां वक्ष्यते । अथ तपःशोषितत्वादिकमनन्तरगाथोक्तं कारणं वर्तते तत्र त्रीण्यपि दिनानि समनुज्ञातानि । 'ततः' दिवसत्रयात् परतः 'शोधिः' प्रायश्चित्तं भवेत् ॥ १५५७ ॥ तामेवाह सत्तरत्तं तवो होइ, तओ छेओ पहावई ।। छएणऽच्छिन्नपरियाए, तओ मूलं तओ दुर्ग ॥ १५५८ ॥ सप्तरात्रं यावत् तपो भवति । 'ततः' सप्तरात्रानन्तरं छेदः प्रधावति । छेदेनाप्यच्छिन्नपर्याये साधौ ततो मूलम् । ततः 'द्विकम्' अनवस्थाप्य-पाराश्चिकद्वयम् ॥ १५५८ ॥ इदमेव व्याख्यानयति मासो लहुओ गुरुओ, चउरो लहया य होति गुरुगा य । छम्मासा लहु गुरुगा, छेओ मूलं तह दुगं च ।। १५५९ ॥ इह प्रथमदिवसे वसन्तोऽनुज्ञाता एव, “पढमदिणे समणुन्न" (गा० १५५७ ) ति वचनात् । द्वितीये दिवसे यदि मनोज्ञाहारलम्पटतया तत्र ग्रामे वसन्ति तदा लघुको मासः, तृतीये गुरुकाः(कः), चतुर्थे चत्वारो लघवः, पञ्चमे चतुर्गुरवः, षष्ठे षण्मासा लघवः, सप्तमे षण्मासा 20 गुरवः, ततः सप्तरात्रानन्तरमष्टमे दिवसे च्छेदः, नवमे मूलम् , दशमेऽनवस्थाप्यम् , एकादशे पाराञ्चिकमिति । अथ तपःशोषितशरीरादयस्ते ततस्त्रीणि दिवसानि वसन्तः प्रायश्चित्तं नापद्यन्ते, “तिनि वि समणुनाय' (गा० १५५७ ) त्ति वचनात् । चतुर्थे दिवसे वसतां लघुमासः, पञ्चमे गुरुमासः, षष्ठे चतुर्लघवः, सप्तमे चतुर्गुरवः, अष्टमे षड्लघवः, नवमे षड्गुरवः, दशमे च्छेदः, एकादशे मूलम् , द्वादशेऽनवस्थाप्यम् , त्रयोदशे पाराश्चिकमिति विशेषचूर्ण्य25 भिप्रायः । बृहद्भाष्ये पुनरित्थमुक्तम् ___एक्वेक सत्तवारा, मासाईयं तवं तु दाऊण । छेओ वि सत्तसत्तओं, तिन्नि गमा तस्स पुव्वुत्ता ॥ 'पूर्व' पीठिकायां (गाथा ७०६ ) 'तस्य' च्छेदस्य ये त्रयो गमा उक्तास्तेऽत्रापि द्रष्टव्याः । तत्र यतः स्थानात् तपः प्रारब्धं तत आरभ्य च्छेदोऽपि दीयते, लघुमासादारभ्येत्यर्थः इत्येको 30 गमः । लघुपञ्चकादारभ्येति द्वितीयः । गुरुपञ्चकादारभ्येति तृतीयः ॥ १५५९ ॥ इदं सामान्यतः प्रायश्चित्तम् । अथ विशेषत आह __ अणणुण्णाए निकारणे व गुरुमाइणं चउण्हं पि । १°व पक्षद्वयं भा° भा० ॥ २'रणे एत्तो ता० ॥

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400