Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६००
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् ३
अण्णगिलायबिलिया, अज अहं देह अन्नासि ॥२०७८ ॥ एका ब्रूते--अद्याहं निर्विकृतिका । द्वितीया प्राह-अद्य मम 'एतावत्यः' एक-यादिसङ्ख्याका विकृतयो मुत्कलाः शेषाणां प्रत्याख्यानम् । अपरा भणति-अद्य ममैतावन्तः ‘लम्बनाः' कवलाः तत ऊर्द्ध नियमः । अन्याऽभिधत्ते-अद्याहम् 'अन्नग्लाना' ग्लान-पर्युषितमन्नं मया भोक्तव्यमित्येवं 5 प्रतिपन्नाभिग्रहा । तदपरा ब्रूते-अद्याहम् 'आचाम्लिका' कृताचाम्लप्रत्याख्याना अत इदं विकृत्यादिकमन्यासां प्रयच्छत । एवं समुद्दिश्य खच्छपानकेनाचमनं कुर्वन्ति । प्रवर्त्तिन्याः कमढकं क्षुल्लिका निलेपयति, शेषास्तु खं खं कमढकम् । ततः सर्वास्वपि समुद्दिष्टासु मण्डलीस्थविरा समुद्दिशति ॥ २०७८ ॥ एवंविधं विधिं दृष्ट्वा किं भवति ? इत्याह
दट्टण निहुयवासं, सोयपयत्तं अलुद्धयत्तं च ।
इंदियदमं च तासिं, विणयं च जणो इमं भणइ ॥ २०७९ ॥ 'तासां' संयतीनां 'निभृतवास' विकथादिविरहेण निर्व्यापारतयैवावस्थानम् , 'शौचप्रयत्न' वारकग्रहणादिरूपम् , अलुब्धत्वं च विकृत्यादिप्रत्याख्यानाभिग्रहश्रवणेन, 'इन्द्रियदमं च' श्रोत्रादीन्द्रियनिग्रहम् , 'विनयं च' प्रवर्तिन्यादिप्वभ्युत्थानादिरूपं दृष्ट्वा ‘जनः' लोक इदं ब्रवीति ॥२०७९॥
सच्चं तवो य सीलं, अणहिक्खाओ अ एगमेगस्स । 15
जइ बंभं जइ सोयं, एयासु परं न अन्नासु ॥ २०८० ॥ वाहिरमलपरिछुद्धा, सीलसुगंधा तवोगुणविसुद्धा ।
धन्नाण कुलुप्पन्ना, एआ अवि होज अम्हं पि ॥ २०८१ ॥ 'सत्यं वाकर्मणोरविसंवादिता, 'तपः' अनशनादि, 'शीलं' सुखभावता, 'अनधिकखादश्च' विषमभोजनम् 'एकैकस्याः' परस्परममूषाम् , तथा यदि 'ब्रह्म' ब्रह्मचर्य यदि 'शौच' शुचिसमा20 चारता, एतानि सत्यादीनि यदि परम् एतासु' संयतीपु दृश्यन्ते 'नान्यासु' शाक्यादिपापण्डिनीषु । ततो यद्यप्येता बाह्यमलेन परिक्षिप्तास्तथापि शीलेन सुगन्धाः तपोगुणैः-अनशनादिभिः यद्वा तपसा-प्रतीतेन गुणैश्च-उपशमादिभिर्विशुद्धाः 'धन्यानां कुलोत्पन्नाः' एता येषां कुले उत्पन्नास्तेऽपि धन्या इति भावः । 'अपिः' सम्भावनायाम् , सम्भाव्यते किमयमर्थः यदस्माकमपि भगिनी-दुहित्रादय एतादृश्यः-खकुलोज्वालनकारिण्यो भवेयुः ? ॥२०८०॥२०८१॥
एवं तत्थ वसंतीणुवसंतो सो य सिं अगारिजणो।।
गिण्हेति य सम्मत्तं, मिच्छत्तपरम्मुहो जाओ ॥ २०८२ ॥ एवं तत्र वसन्तीनां तासां स अगारीजनः 'उपशान्तः' प्रतिबुद्धस्ततो मिथ्यात्वपराङ्मुखो जातः सन् सम्यक्त्वं गृह्णाति, चशब्दाद् देशविरतिं गृहवासभग्नो वा कश्चित् तद्गुणग्रामरञ्जितमनाः सर्वविरतिमपि प्रतिपद्यते ॥२०८२ ॥ गतं भिक्षार्थनाविधिद्वारम् । अथ प्रत्यनीकद्वारमाह30
तरुणीण अभिवणे, संवरितो संजतो निवारेइ ।।
तह वि य अठायमाणे, सागारिओं तत्थुवालभइ ॥ २०८३ ॥ तरुणीनां संयतीनामभिद्रवणे प्रत्यनीकेन विधीयमाने सति 'संवृतः' संयतीवेषाच्छादितः १ "ग्लानमन्नं अन्नगिलातं” इति चूणीं ॥ २ » एतदन्तर्गतः पाठः त० दे० कां० नास्ति ॥
Loading... Page Navigation 1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400