Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 397
________________ 5 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् ४ "अविहाडं" ति देशी भाषया बालकं सिंहं गुहा 'पालयति' वनमहिष- व्याघ्रादिभ्यो रक्षति, तन्निर्गतस्य तस्य तेभ्यः प्रत्यपायसम्भवात् ; तेन कारणेन गुहा महर्द्धिका । यदा तु सिंहो यौवनं प्राप्तो भवति तदा किं तस्य प्रयोजनं गिरिगुहया ? न किञ्चिदित्यर्थः खयमेव वनमहिपाद्युपद्रवादात्मानं पालयितुं प्रत्यलीभूतत्वात् इत्थं सिंहो महर्द्धिकः ।। २११४ ॥ , " अथार्थोपनयमाह - दव्वावइमाई, कुसीलसंसग्गि- अन्नउत्थीहिं । रक्ख गणपुरोगो, गच्छो अविकोवियं धम्मे ॥ २११५ ॥ गणी- आचार्यः स पुरोग : - पुरस्सरो नायको यस्य स तथाविधो गच्छो गुहास्थानीयः सिंहशावकस्थानीयं साधुं ‘धर्मे' श्रुत चारित्रात्मके 'अविकोविदम्' अद्याप्यप्रबुद्धं द्रव्यापदि आदि10 शब्दात् क्षेत्र-काल-भावापत्सु तथा कुशीलाः - पार्श्वस्थादयस्तैरन्यतीर्थिकैर्वा सार्द्धं यः संसर्गस्तत्र च ‘रक्षति' विश्रोतसिका-प्रमाद - मिथ्यात्वाद्युपद्रवात् पालयति अतो गच्छो महर्द्धिकः । यदा त्वसौ द्विविधेऽपि धर्मे व्युत्पन्नमतिः कृतपरिकर्मा जिनकल्पं प्रतिपन्नस्तदा स्वयमेवात्मानं द्रव्यापदादिष्वपि विश्रोतसिकादिविरहितः सम्यक् परिपालयति अतो जिनकल्पिको महर्द्धिकः ॥ २११५ ॥ अथ महेलाद्वयदृष्टान्तमाह 15 ६०८ आणा - इस्सरियसुहं, एगा अणुभवइ जइ वि बहुतत्ती । देहस्स य संठप्पं, भोगसुहं चेव कालम्मि ।। २११६ ॥ परवावारविमुक्का, सरीरसक्कारतप्परा निच्चं । मंडण वक्खित्ता, भत्तं पि न चेयई अपया ।। २११७ ॥ द्वयोर्महेलयोर्मध्ये ‘एका’ सप्रसवा यद्यपि 'बहुतप्तिः' अपत्यस्त्रपनादिबहुव्यापारव्यापृता तथापि 20 सा गृहस्वामिनीत्वादाज्ञैश्वर्य सुखमनुभवति, 'काले च' प्रस्तावे देहस्य 'संस्थाप्यं' संस्थापनां भोगसुखमपि च प्राप्नोति ॥ २११६ ॥ 25 या तु 'अप्रजा' अप्रसवा सा 'परव्यापारविमुक्ता' अपत्यादिचिन्तावर्जिता 'नित्यं' सदा शरीरसंस्कारे-मुखधावनादौ तत्परा -परायणा 'मण्डनके' विलेपना -ऽऽभरणादौ व्याक्षिप्ता सती ‘भक्तमपि’ भोजनमपि ‘न चेतयति' न संस्मरति ॥ २११७ ॥ अर्थोपनयमाह - वेयावचे चोयण-वारण चावारणासु य बहुसु । मादीवक्खेवा, सययं झाणं न गच्छम्मि ।। २११८ ॥ यथा सप्रसवायाः स्त्रियो बहुव्यापारव्यग्रता भवति तथा गच्छेऽपि यद् आचार्योपाध्यायादिवैयावृत्त्यम्, या च चक्रवालसामाचारी हापयतो नोदना, या चाकृत्यप्रतिसेवनां कुर्वतो वारणा, याश्च बहवो वस्त्र -पात्राद्युत्पादनविषया व्यापारणाः तदेवमादिषु यो व्याक्षेपः - व्याकुलत्वं तस्मा30 द्धेतोः 'गच्छे' गच्छ्वासिनां 'सततं' निरन्तरं 'ध्यानम् ' एकाग्रशुभाध्यवसायात्मकमात्मनो मण्डनकल्पं न भवति । जिनकल्पिकस्य तु वैयावृत्त्यादिव्याक्षेपरहितस्य निरपत्यस्त्रिया आत्मनो मण्डनमिव 'निरन्तरमेव तथा तद् उपजायते यथा भोक्तुमपि स्पृहा न भवति ॥ २११८ ॥

Loading...

Page Navigation
1 ... 395 396 397 398 399 400