Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
10
भाष्यगाथाः २१०५-१४] प्रथम उद्देशः ।
६०७ क्षेत्र-कालादिविषया च स्थितिः स्थविरकल्पिकानामिब द्रष्टव्या ॥ २१०८ ॥ तदेवमुक्त आर्यिकाणामपि मासकल्पविधिः । अथ शिप्यः प्रश्नयति
गच्छे जिणकप्पम्मि य, दोण्ह वि कयरो भवे महिड्डीओ।
निप्फायग-निप्फन्ना, दोनि वि होती महिड्डीया ॥ २१०९॥ गच्छ-जिनकल्पयोर्द्वयोर्मध्ये कतरः 'महर्द्धिकः' प्रधानतरो भवेत् ? । गुरुराह-निष्पादक-5 निष्पन्नाविति कृत्वा द्वावपि महर्द्धिकौ भवतः । तत्र गच्छः सूत्रार्थग्राहणादिना जिनकल्पिकस्य निष्पादकः अतोऽसौ महर्द्धिकः, जिनकल्पिकस्तु निप्पन्नः-ज्ञान-दर्शन-चारित्रेषु परिनिष्ठित इत्यसौ महर्द्धिकः ॥ २१०९ ॥ एनामेव नियुक्तिगाथां भावयति
दंसण-नाण-चरित्ते, जम्हा गच्छम्मि होइ परिवुड्डी।
एएण कारणेणं, गच्छो उ भवे महिड्डीओ ॥ २११० ॥ दर्शन-ज्ञान-चारित्राणां यस्माद् गच्छे परिवृद्धिर्भवति एतेन कारणेन गच्छो महर्द्धिको भवति ॥ २११०॥
पुरतो व मग्गतो वा, जम्हा कत्तो वि नत्थि पडिबंधो ।
एएण कारणेणं, जिणकप्पीओ महिड्डीओ ॥ २१११॥ 'पुरतो वा' विहरिष्यमाणक्षेत्रे 'मार्गतो वा' पृष्ठतः पूर्वविहृतक्षेत्रे यस्मात् 'कुतोऽपि' द्रव्यतः 15 क्षेत्रतः कालतो भावतो वा प्रतिबन्धस्तस्य भगवतो न विद्यते एतेन कारणेन जिनकल्पिको महर्द्धिकः ॥ २१११ ॥ अथ द्वयोरपि महर्द्धिकत्वं दृष्टान्तेन दर्शयति
दीवा अन्नो दीवो, पइप्पई सो य दिप्पइ तहेव ।
सीसो च्चिय सिक्खंतो, आयरिओ होइ नऽन्नत्तो ॥ २११२ ॥ दीपाद 'अन्यः' द्वितीयो दीपः प्रदीप्यते, स च मौलो दीपस्तथैव दीप्यते, एवं जिन-20 कल्पिकदीपोऽपि गच्छदीपादेव प्रादुर्भवति, स च गच्छदीपस्तथैव ज्ञान-दर्शन-चारित्रैः स्वयं प्रदीप्यते । यद्वा यथा शिप्य एव शिक्षमाणः सन् क्रमेणाचार्यो भवति 'नान्यतः' नान्येन प्रकारेण एवं स्थविरकल्पिक एव तपःप्रभृतिभिर्भावनाभिरात्मानं भावयन् क्रमेण जिनकल्पिको भवति नान्यथा । अतो द्वावपि महर्द्धिकौ ॥ २११२ ॥ अस्यैवार्थस्य समर्थनायापरं दृष्टान्तत्रयं दर्शयितुं नियुक्तिगाथामाह
दिटुंतों गुहासीहे, दोन्नि य महिला पया य अपया य ।
गावीण दोन्नि वग्गा, सावेक्खो चेव निरवेक्खो ॥ २११३ ॥ दृष्टान्तोऽत्र गुहासिंहविषयः प्रथमः । द्वितीयो द्वे महिले—एका 'प्रजा' अपत्यवती द्वितीया 'अप्रजा' अपत्यविकला । तृतीयो गवां द्वौ वर्गौ-एकः सापेक्षः, अपरो निरपेक्ष इति ॥२११३॥ तत्र गुहासिंहदृष्टान्तं भावयति
30 सीहं पालेइ गुहा, अविहाडं तेण सा महिड्डीया ।
तस्स पुण जोव्वणम्मि, पओअणं किं गिरिगुहाए ॥२११४॥ १ इदमेव भा भो० ले० विना ॥ २ °त्रयमाह भा० कां० ॥
Loading... Page Navigation 1 ... 394 395 396 397 398 399 400