Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 395
________________ ६०६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् ४ विमुच्य द्वौ द्वौ मासावेकत्र वस्तुमनुज्ञायते ॥ २१०४ ॥ अथ द्वयोरुपरि वसन्तीनां दोषान् द्वितीयपदं चोपदर्शयति दोण्हं उवरि वसंती, पायच्छित्तं च होति दोसा य। विइयपयं च गिलाणे, वसही भिक्खं च जयणाए ॥ २१०५ ॥ 5. द्वयोर्मासयोरुपरि वसन्ति ततः प्रायश्चित्तं दोषाश्च भवन्ति । द्वितीयपदं च ग्लाने वसतिर्भेक्षं च यतनया ग्रहीतव्यम् । भावार्थो निग्रन्थानामिव द्रष्टव्यः ॥ २१०५ ॥ सूत्रम् से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि सवाहिरियंसि कप्पइ निग्गंथीणं हेमंत-गिम्हासु चत्तारि मासा वत्थए-अंतो दो मासे, वाहि दो 10 मासे । अंतो वसमाणीणं अंतो भिक्खायरिया, वाहिं वसमाणीणं बाहिं भिक्खायरिया ४-९॥ अस्य व्याख्या प्राग्वत् । नवरं सबाहिरिके क्षेत्रेऽन्तौ मासौ बहि मासावित्येवं चतुरो मासान् निर्ग्रन्थीनां वस्तुं कल्पत इति ॥ अथ भाष्यम् एसेव कमो नियमा, सपरिक्खेवे सवाहिरीयम्मि । नवरं पुण नाणत्तं, अंतो बाहिं चउम्मासा ॥ २१०६ ॥ ___ 'एष एव' पूर्वसूत्रोक्तः क्रमः सर्वोऽपि नियमात् सपरिक्षेपे सबाहिरिके क्षेत्रे वसन्तीनां संयतीनां द्रष्टव्यः । नवरं पुनः'नानात्वं' विशेषोऽयम्- 'अन्तः' अभ्यन्तरे 'बहिः' वाहिरिकायाम् एवमुभयोश्चत्वारो मासाः पूरणीयाः ॥ २१०६॥ चउण्हं उवरि वसंती, पायच्छित्तं च होंति दोसा य । नाणत्तं असईऍ उ, अंतो वसही बहिं चरइ ॥ २१०७॥ चतुर्णा मासानामुपरि यदि सबाहिरिके क्षेत्रे संयती वसति तदा तदेव प्रायश्चित्तं त एव च दोषाः द्वितीयपदमपि तदेव मन्तव्यम् । 'नानात्वं' विशेषः पुनरयम्-बाहिरिकायां वसतेः शय्यातरस्य वा यथोक्तगुणस्य 'असति' अभावे 'अन्तः' प्राकाराभ्यन्तरे "वसहि" ति वसतौ पूर्वस्यामेव स्थिता 'बहिः' बाहिरिकायां 'चरति' भिक्षाचर्यामटति ॥ २१०७ ॥ 25 इदमेव स्पष्टयति जोग्गवसहीइ असई, तत्थेव ठिया चरिंति बाहिं तु । पुव्वगहिए विगिंचिय, तत्तो चिय मत्तगादी वि ॥ २१०८॥ बहिः संयतीयोग्याया वसतेरभावे 'तत्रैव' अभ्यन्तरोपाश्रये स्थिताः सन्त्यो वहिश्चरन्ति, पूर्वगृहीतानि मात्रक-तृण-डगलादीनि 'विविच्य' परित्यज्य अपराणि 'तत एव' बाहिरिकाया 30 मात्रकादीन्यप्यानेतन्यानि, न केवलं भिक्षेत्यपिशव्दार्थः, श्रुत-संहननादिविषया सामाचारी १ °हीतं मात्रक-तृण-डगलादि 'वि° मो० ले. विना ॥ 15

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400