Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 393
________________ ६०४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् ३ धयतीति भावः । मातृप्रामो नाम समयपरिभाषया स्त्रीवर्गः, चशब्द एवकारार्थः, तत इदमुक्तं भवति-स्त्रीवर्ग एव प्रायेण भिक्षादायकः, स च तासां संयतीनामभ्यासे स्त्रीत्वसम्बन्धमधिकृत्य प्रत्यासत्तौ वर्त्तते, अतस्त्रिप्रभृतीनामपि पर्यटन्तीनां सुखेनैव भक्त-पानं पर्याप्तं भवति । शीतोष्णग्रहणेन च संरक्षणमेकैकस्याः परस्परं कृतं भवति ॥ २०९६ ॥ कथं पुनः ? इत्यत आह एगत्थ सीयमुसिणं, च एगहिं पाणगं च एगत्था। दोसीणस्स अगहणे, चिराडणे होजिमे दोसा ॥ २०९७ ॥ 'एकत्र' प्रतिग्रहे 'शीतं' पर्युषितं भक्तं गृह्णन्ति, एकस्मिन्नुष्णम् , एकत्र च पानकम् , एतच्च तिसृणामटन्तीनों घटामाटीकते । अथ द्वे पर्यटतस्तत एकत्र प्रतिग्रहे उष्णं द्वितीयत्र तु पानकं परं दोषान्नं कुत्र गृहन्तु ? मात्रकं तु स्वार्थ परिभोक्तुं न कल्पते, अथोष्णमध्ये दोषान्नं गृह्णन्ति 10 तदा देहविरुद्धं भवति, अथ दोषान्नं न गृह्णन्ति ततो दोषान्नस्याग्रहणे 'चिराटने' चिरं पर्यटन्तीनां तरुणादिकृतोपसर्गः स्त्रीवेद उद्दीप्येत॥२०९७ ॥ तथा चामुमेवार्थ दर्शयितुं वेदत्रयस्वरूपमाह थी पुरिसो अ नपुंसो, वेदो तस्स उ इमे पगारा उ । फंफम-दवग्गिसरिसो, पुरदाहसमो, भवे तइओ॥ २०९८॥ वेदस्त्रिधा-स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च । तस्य तु त्रिविधस्यापि यथाक्रमममी प्रकाराः16 स्त्रीवेदः फुस्फुकामिसदृशः-करीषाग्मितुल्यः, यथा करीषाग्निरन्तर्धगधगन्नास्ते न परिस्फुटं प्रज्वलति न वा विध्यायति चालितस्तु तत्क्षणादेवोद्दीप्यते एवं स्त्रीवेदोऽपि । पुरुषवेदस्तु दवामिसदृशः, यथा दवाग्निरिन्धनयोगतः सहसैव प्रज्वल्य विध्यायति एवं पुरुषवेदोऽपि । तृतीयो नपुंसकवेदः स पुरदाहसमः, यथा हि महानगरदाहे वह्निः प्रज्वलितः सन्ना वा शुष्के वा सर्वत्र दीप्यते एवं नपुंसकवेदोऽपि स्त्रियां पुरुषे वा सर्वत्र दीप्यते न चोपशाम्यति ॥ २०९८॥ 20 इत्थं वेदत्रयखरूपमुपदर्य प्रस्तुतयोजनामाह जह फुफुमा हसहसेइ घट्टिया एवमेव थीवेदो। दिप्पइ अवि किढियाण वि, आलिंगण-छे(छ)दणाईहिं ॥ २०९९ ॥ यथा फुस्फुकाग्निर्घट्टितः सन् “हसहसेइ" त्ति देदीप्यते एवमेव स्त्रीवेदोऽप्यालिङ्गन-च्छेद(च्छन्द) नादिभिरुदीरितः । सन् “किढियाण वि" त्ति » स्थविराणामपि दीप्यते, किं पुनस्तरुणी25 नाम् ? इत्यपिशव्दार्थः ॥२०९९।। आह स्थविराणां कथं वेदोद्दीपनं भवति ? इति उच्यते न वओ इत्थ पमाणं, न तवस्सित्तं सुयं न परियाओ।[आव.नि.७१५] अवि खीणम्मि वि वेदे, थीलिंगं सव्वहा रक्खं ॥ २१००॥ . १. नतः किमुक्त त० ३० का० ॥ २ पतञ्च त्रिप्रभृतीनामेव पर्यटन्तीनां भवति । अथ द्वे पर्यटतस्तत एकत्रोष्णं द्वितीयेच प्रतिग्रहे पानकं गृहीतं ततो दोषान्नमुत्पादितं तत् कुत्र गृह्णातु ? । अथ यस्मिन्नेव प्रतिग्रहे उष्णं गृहीतं तत्रैव शीतमपि गृह्णाति तदा देहविरुद्धं भवति । अथ दोषानं न गृहन्ति ततो दोषान्नस्याग्रहणे चिराटनं-प्रभूतां वेलां पर्यटनं भवति ॥ २०९७ ॥ तत्र चामी दोषा भवेयुः-थी पुरिसो भा० ॥ ३°नां भवति । अथ त. डे० कां० ॥ ४॥ एतदन्तर्गतः पाठः मो० ले. पुस्तकयोरेव ॥

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400