Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
सनिर्युक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् ३
निप्पच्चवाय संबंधि भाविए गणहरऽप्पबिर - तइओ । ने भए पुण सत्थेण सद्धि कयकरणसहितो वा ।। २०७० ।। 'निष्प्रत्यपाये' उपद्रवाभावे संयतीनां ये 'सम्बन्धिनः ' खज्ञातीयाः 'भाविताश्च' सम्यक्परिणतजिनवचना निर्विकाराः संयतास्तैः सह गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीर्विवक्षितं চक्षेत्रं नयति । अथ स्तेनादिभयं वर्त्तते ततः सार्थेन सार्द्धं नयति, यो वा संयतः कृतकरण:इषुशास्त्रे कृताभ्यासस्तेन सहितोऽसौ संयतीस्तत्र नयति । स च गणधरः स्वयं पुरतः स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः || २०७० || अत्रैव मतान्तरमुपन्यस्य दूषयन्नाह - उभयट्ठाइनिविट्टं, मा पेल्ले वइणि तेण पुर एगे ।
तं तु न जुञ्ज अविणय विरुद्ध उभयं च जयणाए ।। २०७१ ।। 10 एके सूरयो ब्रुवते – उभयं - कायिकी - संज्ञे तदर्थम् आदिशब्दात् परस्मिन् वा क्वचित् प्रयोजने निविष्टम् - उपविष्टं सन्तं संयतं त्रतिनी मा प्रेरयतु इत्यनेन हेतुना संयत्यः पुरतो गच्छन्ति । अत्राचार्यः प्राह – 'तत् तु' तदुक्तं न युज्यते । कुतः ? इत्याह – पुरतो गच्छन्तीनां तासामविनयः साधुषु सञ्जायते, लोकविरुद्धं चैवं परिस्फुटं भवति — अहो ! महेलाप्रधानममीषां दर्शनम् । यत एवमतो मार्गतः स्थिता एव ता गच्छन्ति । 'उभयं च ' कायिकी - संज्ञारूपं यतनया 15 कुर्यात् । का पुनर्यतना ? इति चेद् उच्यते - यत्रैकः कायिकीं संज्ञां वा व्युत्सृजति तत्र सर्वेऽपि तिष्ठन्ति । तथास्थिताँश्च तान् दृष्ट्वा संयत्योऽपि नाग्रतः समागच्छेयुः, ता अपि पृष्ठत एव शरीरचिन्तां कुर्वन्तीति ॥ २०७१ ॥ गतं गच्छस्यानयनमिति द्वारम् । अथ वारकद्वारमाहजहियं च अगारिजणो, चोक्खन्भूतो सुईसमायारो । कुडमुहदद्दरएणं, वारगनिक्खेवणा भणिया ।। २०७२ ॥
'यस्मिंश्च' ग्रामादौ ' अगारीजनः' अविरतिकालोकश्चोक्षभूतः शुचिसमाचारश्च वर्तते तत्र वारकग्रहणं निर्ग्रन्थीभिः कर्त्तव्यम् । अथ न कुर्वन्ति ततश्चत्वारो गुरवः, यच्च प्रवचनोड्डाहादि - कमुपजायते तन्निष्पन्नं प्रायश्चित्तम् । यत एवमतः कुटमुखे - घटकण्ठके लक्ष्णचीवरदर्दरकेण पिहितस्य वारकस्य - स्वेच्छद्रवभृतस्य - निक्षेपणा भणिता भगवद्भिः || २०७२ ॥ नामेव नियुक्तिगाथां भावयति -
थीपडिबद्धे उवस्सएँ, उस्सग्गपदेण संवसंतीओ ।
20
25
५९८
वञ्चति काइभूमिं मत्तगहत्था न याऽऽयमणं ॥। २०७३ ॥ उत्सर्गपदेन संयतीभिः स्त्रीप्रतिबद्ध उपाश्रये वस्तव्यमिति कृत्वा तत्र संवसन्त्यो यदा कायिकीभूमिं व्रजन्ति तदा 'मात्रकहस्ता' वारकं हस्ते गृहीत्वा व्रजन्ति, यथा तासामगारीणां प्रत्ययो जायते - एताः कायिकीं कृत्वा पश्चादाचमनं करिष्यन्ति, अहो ! शुचिसमाचारा इति । तत्र च 30 गतास्तासामदर्शनीभूता आचमनं न कुर्वन्ति, स च वारकोऽन्तर्लिप्तः कर्त्तव्यः || २०७३ ॥ कुतः ? इत्यत आह
१
एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥ ३ इति चेद् उच्यते भा० ॥
२ एतदेव भाव' मो० ले० विना ॥
Loading... Page Navigation 1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400