Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 390
________________ भाष्यगाथाः २०७८-८८] प्रथम उद्देशः । ६०१ संयतो निवारयति । तथापि चातिष्ठति तस्मिन् 'सागारिकः' शय्यातरः 'तत्र' उपसर्गे तमुपालभते ॥ २०८३ ॥ एनामेव नियुक्तिगाथां भावयति गणिणिअकहणे गुरुगा, सा वि य न कहेइ जइ गुरूणं पि । सिट्ठम्मि य ते गंतुं, अणुसट्ठी मित्तमाईहिं ॥ २०८४ ॥ कश्चित् तरुणो विषयलोलुपतया संयतीनामुपद्रवं कुर्यात् ततस्तत्क्षणादेव ताभिः प्रवर्तिन्याः । कथनीयम् । यदि न कथयन्ति ततश्चत्वारो गुरवः । साऽपि च प्रवर्तिनी यदि गुरूणां न कथयति तदापि चतुर्गुरवः आज्ञादयश्च दोषाः, तस्मात् कथयितव्यम् । ततः 'शिष्टे' कथिते 'ते' आचार्यास्तस्याविरतकस्य पार्थं गत्वा साध्वीशीलभङ्गस्य दारुणविपाकतासूचिकामनुशिष्टिं ददति । यापरमते ततः सुन्दरम् , अथ नोपरमते ततो यानि तस्य मित्राणि आदिशब्दाद् ये वा भ्रात्रादयः खजनास्तेषां निवेद्य तैः प्रज्ञाप्यते । यदि स्थितस्ततो लष्टम् ॥ २०८४ ॥ 10 तह वि य अठायमाणे, वसभा भेसिंति तहवि य अठंते । अमुगथ घरे एजह, तत्थ य वसभा वतिणिवेसा ॥ २०८५ ॥ तथाप्यतिष्ठति तस्मिन् प्रत्यनीके 'वृषभाः' गच्छस्य शुभा-ऽशुभकार्यचिन्तानियुक्तास्तं प्रत्यनीकं भापयन्ति । तथाप्यतिष्ठति यस्तरुणः कृतकरणः साधुः स संयतीनेपथ्यं कृत्वा तस्य सङ्केतं प्रयच्छति, यथा-अमुकत्र गृहे यूयमागच्छत । ततो वृषभा व्रतिनीनां वेषं परिधाय तेन 15 साधुना सह तत्र गत्वा प्रत्यनीकस्य शिक्षां कुर्वन्ति । तथाप्यनुपशान्ते तस्मिन् सागारिकस्य निवेद्यते । तेनोपलब्धो यदि स्थितस्ततः सुन्दरम् ॥ २०८५ ॥ अथ नास्ति तदानीं सन्निहितः सागारिकस्ततः किं कर्तव्यम् ? इत्याह सागारिए असंते, किच्चकरे भोइयस्स व कहिंति । अण्णत्थ ठाण णिती, खेत्तस्सऽसती णिवे चेव ॥ २०८६॥ 20 सागारिके 'असति' असन्निहिते 'कृत्यकरस्य' ग्रामचिन्तानियुक्तस्य 'भोगिकस्य वा' ग्रामखामिनः कथयन्ति । तेन शासितोऽपि यदि नोपरमते ततः संयतीरन्यत्र 'स्थाने' क्षेत्रे नयन्ति । अथ नास्ति संयतीप्रायोग्यमपरं क्षेत्रं वयं वा संयत्यो ग्लानादिकार्यव्यामृता न शक्नुवन्ति क्षेत्रान्तरं गन्तुं ततः 'नृपस्य' दण्डिकस्य निवेद्यते, स प्रत्यनीकमुपद्रवन्तं निवारयति ॥ २०८६ ॥ गतं प्रत्यनीकद्वारम् । अथ भिक्षानिर्गमद्वारमभिघित्सुराह 25 दो थेरि तरुणि थेरी, दोनि य तरुणीउ एकिया तरुणी। चउरो अ अणुग्घाया, तत्थ वि आणाइणो दोसा ॥ २०८७॥ अत्र गुरुनियोगतश्चर्णिरेव लिख्यते-जति दोन्नि थेरीओ निग्गच्छंति भिक्खस्स का, तरुणी थेरी य जति का, दो तरुणीओ जति निग्गच्छंति एका, एगा थेरी जति निग्गच्छइ एका, एक्किया तरुणी जति निग्गच्छइ एका, तत्राप्याज्ञादयो दोषाः॥२०८७॥ कुतः ? इत्याह-30 चउकण्णं होज रहं, संका दोसा य थेरियाणं पि। कुट्टिणिसहिता बितिए, तइय-चउत्थीसु धुत्ति त्ति ॥ २०८८ ॥ १ इदमेव भाव भा० कां०॥ २थ चेव ए° ता. ॥ ३ अत्र चूर्णिः-जति कां० ॥

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400