Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 388
________________ 10 15 भाष्यगाथाः २०७०-७७] प्रथम उद्देशः । दुक्खं विसुयावेउं, पणगस्स य संभवो अलित्तम्मि । संदंते तसपाणा, आवजण तकणादीया ॥ २०७४ ॥ वारकोऽलिप्तः सन् “विसुयावेउ" विशोषयितुं "दुक्खं" दुप्करो भवति । अलिप्ते च तत्र पानकभावितत्वात् पनकस्य 'सम्भवः' सम्मूर्च्छनं भवति । अलिप्तश्च वारकः पानके प्रक्षिप्ते सति स्यन्दते-परिगलति । स्यन्दमाने च 'त्रसप्राणिनः' कीटिका-मक्षिकादयः समागच्छेयुः । । ततः । किम् ? इत्यत आह--> "आवजण" त्ति यदनन्तकायिक-विकलेन्द्रियेषु सङ्घटनादिकमापद्यते तन्निप्पन्नं प्रायश्चित्तम् । "तकणाईय" ति ततो वारकात् पानके परिगलति मक्षिकाः पतन्ति, तासां ग्रसनाथ गृहकोकिला धावति, तस्या अपि भक्षणार्थ मार्जारीत्येवं तर्कणम्-अन्योन्यं प्रार्थनं तदादयो दोषा भवेयुः ॥ २०७४ ॥ यत्र पुनः कायिकीभूमौ सागारिकं भवति तत्रेयं यतना सागारिए परम्मुह, दगसदमसंफुसंतिओ नित्तं । पुलएज मा य तरुणी, ता अच्छ दवं तु जा दिवसो ॥ २०७५ ॥ सागारिके सति पराङ्मुखीभूय कायिकी कृत्वा 'नेत्रं' भगमसंस्पृशन्त्यः 'दकशब्दं' पानकप्रक्षालनानुमापकं कुर्वन्ति । तथा 'तरुण्यः' स्त्रियः 'किमत्रास्ति पानकं न वा ?' इति जिज्ञासया मा प्रलोकन्तामिति हेतोस्तस्मिन् वारके तावद् 'अच्छम्' अकलुषं 'द्रवं' पानकं प्रक्षिप्तं तिष्ठति यावद् दिवसः, ततः सन्ध्यासमये तत् पानकं परिष्ठापयन्ति ॥ २०७५ ॥ गतं वारकद्वारम् । अथ भक्तार्थनाविधिद्वारमाह--- मंडलिठाणस्सऽसती, बला व तरुणीसु अहिवडंतीसु । पत्तेय कमढभुंजण, मंडलिथेरी उ परिवेसे ॥ २०७६ ॥ यद्यसागारिकं ततो मण्डल्यां समुद्दिशन्ति । अथ मण्डलीभूमिः सागारिकबहुला ततो मण्डलिस्थानस्यासति बलाद् वा प्रणयेन तरुणीष्वभिपतन्तीषु तत्रौर्णिकं कल्पमधः प्रस्तीर्य तस्योपरि 20 सौत्रिकं तत्राप्यलावुपात्रकाणि स्थापयित्वा प्रत्येकं कमढकेषु भुञ्जते । प्रवर्तिनी च पूर्वाभिमुखा धुरि निविशते । तत एका मण्डलिस्थविरा यमलजननीसहोदरा सर्वासामपि परिवेषयेत्, आत्मनोऽपि योग्यमात्मीये कमढके प्रक्षिपेत् ॥ २०७६ ॥ ओगाहिमाइविगई, समभाग करेइ जत्तिया समणी । तासिं पच्चयहेउं, अणहिक्खट्टा अकलहो अ॥ २०७७॥ 25 अवगाहिमं-पक्वान्नम् आदिशब्दाद् घृतादिकाश्च विकृतीः यावत्यः श्रमण्यस्तावतः समभागान् मण्डलिस्थविरा करोति । किमर्थम् ? इत्याह--'तासां' श्रमणीनां प्रत्ययार्थम् , तथा "अणहिक्खट्ट' त्ति 'अनधिकखादनार्थ' सर्वासामप्यविमसमुद्देशनार्थम् , अकलहश्चैवं भवति, असङ्खडं न भवतीत्यर्थः ॥ २०७७ ॥ ताश्च समुद्देष्टुमुपविशन्त्य इत्थं ब्रुवते निव्वीइय एवइया, व विगइओ लंबणा व एवइया । १ » एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥ २°पयति, आ° भा० ॥३°क्षिपति भा०॥ ४°पमं समुद्देशनं यथा भवतीति भावः, एवं च विधीयमाने 'अकलहः' परस्परमसह्वडं न भवति ॥ २०७७ ॥ ताश्च समुद्दिशन्त्य इत्थं भा० ॥ 30

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400