Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाप्यगाथाः २०६१-६९] प्रथम उद्देशः ।
५९७ नपुंसकाश्च "हे?" ति अधोनापिताः 'तिर्यञ्चश्च' वानरादय आपतन्ति 'सा तु' सा पुनः दिक् प्रथमा द्वितीया चतुर्थी च 'प्रतिक्रुष्टा' निषिद्धा, प्रथमादीनि स्थण्डिलानीत्यर्थः ॥ २०६५ ॥ अथैनामेव नियुक्तिगाथा व्याचष्टे
चारभड घोड मिंठा, सोलग तरुणा य जे य दुस्सीला।
उम्भामित्थी वेसिय, अपुमेसु उ इंति उ तदहा ॥ २०६६॥ 'चारभटाः' राजपुरुषाः 'घोटाः' चट्टाः 'मिण्ठाः' गजपरिवर्तकाः 'सोलाः' तुरगचिन्तानियुक्ताः, एवमादयो ये तरुणाः सन्तो दुःशीलास्ते प्रथम-द्वितीययोः स्थण्डिलयोरनापातत्वादेकान्तमिति कृत्वा उद्रामकस्त्रीषु वा वेश्यासु वा “अपुमेसु उ" ति नपुंसकेषु वा पूर्वप्राप्तेषु 'तदर्थ' तेषाम्-उद्धामकस्त्रीप्रभृतीनां प्रतिसेवनार्थमायान्तीति । चतुर्थे स्थण्डिले संलोकत्वादेते दुःशीलादयः संयतीवर्ग पश्येयुः संयतीवर्गेण वा ते दृश्येरन्नित्यतस्तदपि निषिध्यते ॥ २०६६ ॥ 10
हेट्ठउवासणहेउं, णेगागमणम्मि गहण उड्डाहो ।
वानर-मयूर-हंसा, छाला सुणगादि तेरिच्छा ॥ २०६७ ॥ अधस्तादुपासनम्-अधोलोचकर्म तद्धेतोरधोनापितेषु पूर्वप्राप्तेषु 'अनेकेषां' मनुष्याणामघोलोचकर्मकारापकाणामागमने सति यधुदीर्णमोहास्ते संयतीगृहन्तीति ततो ग्रहणे उड्डाहो भवति । तथा वानर-मयूर-हंसाश्छगलाः शुनकादयश्च तिर्यञ्चस्तत्रायाताः संयतीमुपसर्गयेयुः ॥ २०६७ ॥16 यत एवं ततः किम् ? इत्यत आह
जइ अंतो वाधाओ, बहिया तासि तइया अणुनाया।
सेसा नाणुनाया, अजाण वियारभूमीतो ॥२०६८ ॥ यदि 'अन्तः' ग्रामाभ्यन्तरे 'व्याघातः' पुरोहडादेरभावस्ततो बहिस्तासां तृतीया विचारभूमिः' आपाताऽसंलोकरूपाऽनुज्ञाता, तत्रापि स्त्रीणामेवापातो ग्राह्यो न पुरुषाणाम् । शेषा विचारभूम-30 योऽनापाताऽसंलोकाद्या आर्यिकाणां नानुज्ञाताः ॥ २०६८ ॥ गतं विचारद्वारम् । अथ संयतीगच्छस्यानयनमिति द्वारमाह
पडिलेहियं च खेतं, संजइवग्गस्स आणणा होइ ।
निकारणम्मि मग्गों , कारणे समगं व पुरतो वा ॥ २०६९॥ __एवं वसति-विचारभूम्यादिविधिना प्रत्युपेक्षितं च गंयतीप्रायोग्य क्षेत्रम् । ततः संयतीवर्ग-25 स्यानयनं तत्र क्षेत्रे भवति । कथम् ? इत्याह–निकारणे' निर्भये निराबाधे वा सति साधवः पुरतः स्थिताः संयत्यस्तु 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति । कारणे तु 'समकं वा' साधूनां पार्श्वतः 'पुरतो वा' साधूनामग्रतः स्थिताः संयत्यो गच्छन्ति ॥ २०६९ ॥
१ अथैतदेव व्या भा० ॥ २ ताः, अपरे च ये त° भा० ॥
३ स्त्रीवेश्या वा गृहीत्वा "अपुमेसु उ"त्ति नपुंसकेषु तानि वा गृहीत्वेत्यर्थः आयान्ति । किमर्थम् ? इत्याह-'तदर्थे' तेषां प्रतिसेवनार्थमित्यर्थः ॥ २०६६ ॥ मा० ॥
४ "णिकारणे पुरओ संजया ठायंति । अह सव्वओ भयं तो मज्झे तरुणीओ पासे मज्झिमाओ थेरीको खुड़ियाओ थेरा खुट्टगा मज्झिमा तरुणा वसभ त्ति, कारणे एयाए विहीए वचंति" इति विशेषपूर्णौ ॥
Loading... Page Navigation 1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400