Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः २०५३-६०] प्रथम उद्देशः ।
५९५ च 'श्रमणानां' साधूनां विशेष जानाति, यथा-ईदृशममीषां दर्शने व्रतम् , ईदृशश्च समाचारः। एतादृशे क्षेत्रे साध्वीयोग्ये श्रमणानां प्रत्युपेक्षणा भवति, एवंविधं क्षेत्रं तासां हेतोः प्रत्युपेक्षणीयमिति भावः । ॥ २०५६ ॥
तथा यत्र दुःशीलजनः तस्कर-श्वापदभयं वा यत्र नास्ति ईदृशे निष्पत्यपाये क्षेत्रे आर्यिकाणां प्रायोग्ये प्रत्युपेक्षणा कर्तव्या भवति ॥ २०५७ ॥ अथ वसतिद्वारमाह
गुत्ता गुत्तदुवारा, कुलपुत्ते सत्तमंत गंभीरे ।
भीयपरिस मद्दविए, ओभासण चिंतणा दाणे ॥ २०५८ ॥ 'गुप्ता' वृत्या कुड्येन वा परिक्षिप्ता । 'गुप्तद्वारा' कपाटद्वयोपेतद्वारा । यस्यां च शय्यातरः कुलपुत्रकः, कथम्भूतः ? 'सत्त्ववान्' न केनापि क्षोभ्यते, महदपि च प्रयोजनं कर्तुमध्यवस्यति । 'गम्भीरो नाम' संयतीनां पुरीषाद्याचरणं दृष्ट्वाऽपि विपरिणामं न याति । तथा भीता-चकिता 10 पर्षद् यस्य स भीतपर्षद् , आजैकसारतया यस्य भृकुटिमात्रमपि दृष्ट्वा परिवारः सर्वोऽपि भयेन कम्पमानस्तिष्ठति न च क्वचिदन्याये प्रवृत्तिं करोति । मार्दवम्-अस्तब्धता तद् विद्यते यस्य स मार्दविकः । एवंविधो यदि कुलपुत्रको भवति ततः “ओभासण" ति संयतीनामुपाश्रयस्यावभाषणं कर्तव्यम् । अवभाषिते च यद्यसावुपाश्रयमनुजानीते- 'अनुग्रहो मे, तिष्ठन्तु भगवत्यो यथाऽभिप्रेतं कालमत्र' इति । ततो भण्यते-"चिंतण" त्ति यथा खकीयाया दुहितुः मुषाया वा 15 चिन्तां करोषि तथा यद्येतासामपि प्रत्यनीकाद्युपसर्गरक्षणे चिन्तां कर्तुमुत्सहसे ततोऽत्र स्थापयामः । स प्राह-वाढं करोमि चिन्तां परं कथं पुनरमू रक्षणीयाः ? । ततोऽभिधातव्यम्यथा किलाक्षिणी स्वहस्तेन परहस्तेन वा दूयमाने रक्ष्येते तथैता अपि यद्यात्ममानुषैरपरमानुषैर्वा उपद्र्यमाणा रक्षसि तत एता रक्षिता भवन्तीति । यद्येवं प्रतिपद्योपाश्रयस्य दानं करोति ततः स्थापनीयाः । अथाप्रतिपद्यमाने स्थापयन्ति ततश्चत्वारो गुरुकाः ॥ २०५८ ॥ 20 अन्याचार्याभिप्रायेणामुमेवार्थमाह
घणकुड्डा सकवाडा, सागारियमाउ-भगिणिपेरंता ।
निप्पञ्चवाय जोग्गा, विच्छिन्नपुरोहडा वसही ॥२०५९ ॥ 'घनकुड्या' पक्केष्टकादिमयभित्तिका, 'सकपाटा' कपाटोपेतद्वारा, सागारिकसत्कानां मातृभगिनीनां गृहाणि पर्यन्ते-पार्श्वतो यस्याः सा सागारिकमातृ-भगिनीगृहपर्यन्ता, गाथायामनु-25 क्तोऽपि गृहशब्दोऽत्र द्रष्टव्यः, 'निष्पत्यपाया' दुर्जनप्रवेशादिप्रत्यपायरहिता, विस्तीर्ण पुरोहडंगृहपश्चाद्भागो यस्यां सा विस्तीर्णपुरोहडा, एवंविधा वसतिः संयतीनां योग्या ॥ २०५९ ॥
नासने नातिदूरे, विहवापरिणयवयाण पडिवेसे ।
मज्झत्थ-ऽवियाराणं, अकुऊहल-भावियाणं च ॥ २०६०॥ विधवाश्च ताः परिणतवयसश्च-स्थविरस्त्रियस्तासाम् तथा मध्यस्थानां-कन्दादिभावविक- 30 लानाम् अविकाराणां-गीतादिविकाररहितानाम् अकुतुहलानां-'संयत्यो भोजनादिक्रियाः कथं
१ > एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥२॥ एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव । “अजाणं वसहिं देहि । सो भणइ-अणुग्गहो मे । ताहे भण्णइ" इति विशेषचूर्णौ ॥
Loading... Page Navigation 1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400