Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः २०४५-५२] प्रथम उद्देशः । गाथाद्वयसमुदायार्थः ॥ २०४८ ॥ २०४९ ॥ अथावयवार्थ प्रतिद्वारमाह
पियधम्मे दढधम्मे, संविग्गेऽवज ओय-तेयस्सी।
संगहुवग्गेहकुसले, सुत्तत्थविऊ गणाहिवई ॥ २०५०॥ प्रियः-इष्टो धर्मः-श्रुत-चारित्ररूपो यस्य स प्रियधर्मा । यस्तु तस्मिन्नेव धर्मे दृढो द्रव्य-5 क्षेत्राद्यापदुदयेऽपि निश्चलः स दृढधर्मा, राजदन्तादित्वाद् दृढशब्दस्य पूर्वनिपातः । संविमो द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतो मृगः, सदैव त्रस्तमानसत्वात् । भावतो यः संसारभयोद्विग्नः सन् नित्यं पूर्वरात्रा-ऽपररात्रकाले सम्प्रेक्षते-किं मया कृतम् ? किंवा मे कर्तव्यशेपम् ? किं वा शक्यमपि तपःकर्मादिकमहं न करोमि ? इत्यादि । ___ ता............... उद्विग्नवासा न शयं लभन्ते ।
एवं वुधा ज्ञानविशेषबुद्धाः, संसारभीता न. रतिं लभन्ते ॥ "वज्ज" ति अकारप्रश्लेषाद् अवयं-पापं "सूचनात् सूत्रम्" इति कृत्वा तद्भीरु:-अवद्यभीरुः। ओजः तेजश्च उभयमपि वक्ष्यमाणलक्षणं तद् विद्यते यस्य स ओजखी तेजखी चेति । सङ्ग्रहःद्रव्यतो वस्त्रादिभिर्भावतः सूत्रार्थाभ्याम् , उपग्रहः-द्रव्यत औषधादिभिर्भावतो ज्ञानादिभिः, एतयोः संयतीविषययोः सङ्ग्रहोपग्रहयोः कुशल:-दक्षः । तथा 'सूत्रार्थविद्' गीतार्थः । एवं-15 विधः ‘गणाधिपतिः' आर्यिकाणां गणधरः स्थापनीयः ॥२०५० ॥ अथौजस्तेजसी व्याचष्टे
आरोह-परीणाहा, चियमंसो इंदिया य पडिपुण्णा ।
अह ओओ तेओ पुण, होइ अणोतप्पया देहे ॥ २०५१ ॥ आरोहो नाम-शरीरेण नातिदैर्घ्य नातिहखता, परिणाहो नाम-नातिस्थौल्यं नातिदुर्बलता; अथवा आरोहः-शरीरोच्छायः, परिणाहः-बाह्वोर्विष्कम्भः, एतौ द्वावपि तुल्यौ न हीनाधिक- 20 प्रमाणौ । “चियमंसो" त्ति भावप्रधानत्वाद् निर्देशस्य 'चितमांसत्वं नाम' वपुषि पांसुलिका नावलोक्यन्ते । तथा इन्द्रियाणि च प्रतिपूर्णानि, न चक्षुः-श्रोत्राद्यवयवविकलतेति भावः । 'अथ' एतद् आरोहादिकमोज उच्यते, तद् यस्यास्ति स ओजखी । तेजः पुनः 'देहे' शरीरे 'अनपत्रप्यता' अलजनीयता दीप्तियुक्तत्वेनापरिभूतत्वम् , तद् विद्यते यस्य स तेजखी ॥ २०५१ ॥ गतं गणधरप्ररूपणाद्वारम् । अथ क्षेत्रमार्गणाद्वारमाह
खित्तस्स उ पडिलेहा, कायव्वा होइ आणुपुव्वीए।
किं वच्चई गणहरो, जो चरई सो तर्ण वहइ ॥ २०५२ ॥ 'क्षेत्रस्य' संयतीप्रायोग्यस्य 'आनुपूर्व्या' "थुइमंगलमामंतण" (गा० १४६१) इत्यादिना पूर्वोक्तक्रमेण प्रत्युपेक्षणा गणधरेण कर्तव्या । आह 'किं' केन हेतुना गणधरः खयमेव क्षेत्रप्रत्यु
१ अत्र भा० प्रतौ १५३०० ग्रन्थाग्रं विद्यते, प्रथमखण्डश्चास्या अत्र समाप्यते ॥ २ गहसुत्तत्थतदुभयविदू ता० ॥ ३ - एतदन्तर्गतः पाठः मो० ले० पुस्खकयोरेव ॥ ४त्ति वय॑म् अकारप्रश्लेषाद् अवधं वा-पापं भा० ॥ ५ "अधवा 'आरोहो' उच्चत्तं 'परिणाहो' बाहणं बिक्खंभो, समचउरंससंठाणमित्यर्थः।"
25
Loading... Page Navigation 1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400