Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
15
५९२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् ३
एष एव 'गमः' प्रकारः फलकेष्वपि भवत्यानुपूर्व्या यस्तृणेषु “ नयणे दिट्टे सिट्टे” ( गा० २०३९) इत्यादिना भणितः । नवरं पुनरत्र नानात्वं चत्वारो मासा जघन्यपदे भवन्ति । जघ5 न्यपदं नाम - यत्र तृणेषु लघुमासिकमापद्यते तच्चानापृच्छया बहिर्नयनमिति द्रष्टव्यम् तत्र फलकेषु चतुर्लघु ॥ २०४५ || अथ मासद्वयादूर्द्धमवस्थाने दोषान् द्वितीयपदं चाह -
दोहं उवरिं वसती, पायच्छित्तं च होंति दोसा य ।
बिइयपदं च गिलाणे, वसही भिक्खं च जयणाए । २०४६ ॥
सबाहिरिके क्षेत्रे द्वयोर्मासयोरुपरि यदि वसति ततः प्रायश्चित्तं प्रागुक्तमेव मासलघुकाख्यम्, 10 दोषाश्च त एवावसातव्याः ये अबाहिरिके क्षेत्रे "संवासे इत्थिदोसा " ( गा० २०२७ ) इत्यादिना उक्ताः । द्वितीयपदं च ग्लानविषयं तदेव वक्तव्यम् । तत्र च तिष्ठता वसतिर्भैक्षं च यतनया ग्रहीतव्यम् ॥ २०४६ ॥ सूत्रम् —
से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथीणं हेमंत - गेम्हासु दो
सेव गमो नियमा, फलएसु वि होइ आणुपुत्रीए । नवरं पुण नाणत्तं, चउरो मासा जहन्नपदे || २०४५ ॥
मासा वत्थए ३-८॥
अस्यापि व्याख्या प्राग्वत् । नवरमबाहिरिके क्षेत्रे कल्पते निर्ग्रन्थीनां हेमन्त - ग्रीष्मेषु द्वौ मासौ वस्तुमिति ॥ अथ भाष्यविस्तरः
एसेव कमो नियमा, निग्गंथीणं पि होइ नायव्वो ।
जं एत्थं नाणत्तं, तमहं वोच्छं समासेणं ।। २०४७ ॥
25
20 'एष एव ' निर्मन्थसूत्रोक्तः “पवज्जा सिक्खापय" ( गा० ११३२ ) इत्यादिकः क्रमो नियमाद् निर्ग्रन्थीनामपि ज्ञातव्यो भवति । यत् पुर्नः अत्र विहारद्वारे नानात्वं तदहं वक्ष्ये समासेन || २०४७ ॥ प्रतिज्ञातमेव निर्वाहयति
arieti गणहरपरूवणा खेत्तमग्गणा चैव ।
वसही वियार गच्छस्स आणणा वारए चैव ॥। २०४८ ॥ भट्टणाऍ य विही, पडिणीए भिक्खनिग्गमे चैव । निग्गंथाणं मासो, कम्हा तासिं दुवे मासा || २०४९ ॥
निर्ग्रन्थीनां यो गणधरः - गच्छवर्त्तापकस्तस्य प्ररूपणा कर्त्तव्या । ततः क्षेत्रस्य संयतीप्रायोग्यस्य मार्गणा - प्रत्युपेक्षणा वक्तव्या । ततस्तासां योग्या वसतिर्विचारभूमिश्च । ततः 'गच्छस्य' संयंतीगणस्य आनयना । ततः ‘वारकः' घटस्तत्खरूपम् । तदनन्तरं भक्तार्थना - समुद्देशनं तस्याः 'विधिः' 30 व्यवस्था । ततः प्रत्यनीककृतोपद्रवतो यथा निवारणम् । ततो भिक्षायां निर्गमः । ततो निर्यन्थानां कस्मादेको मासः ? तासां च कस्माद् द्वौ मासौ ? । एतानि द्वाराणि वक्तव्यानीति द्वार
१ 'नरत्र नाना' भा० ॥
Loading... Page Navigation 1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400