Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः २०३९-४४] प्रथम उद्देशः । ततः पृष्टे साधुना च निकुते नृपपुमांसस्तस्य साधोग्रहणं कुर्वन्ति चत्वारो गुरवः । राजपुरुषैः 'त्वं चौरः' इत्युक्त्वा राजकुलाभिमुखमाकर्षणे कृते सति षण्मासा लघवः । अथ ते राजकुलाभिमुखमाकर्षन्ति साधुश्च तान् प्रतीपमाकर्षति एवं कर्षणाकर्षणे षण्मासा गुरवः । व्यवहारे प्रारब्धे छेदः । व्यवहृते यदि संयतः पश्चात्कृतस्ततो मूलम् । उड्डहन-व्यङ्गनयोर्द्वयोरनवस्थाप्यः । अपद्रावण-निर्विषयाज्ञापनयोर्द्वयोः पाराञ्चिक इति ॥ २०४१ ॥ २०४२ ॥ आह कथं पुनस्तृणानि स्तेनाहृतानि सम्भवन्ति ? इत्युच्यते
दंतपुरे आहरणं, तेनाहड बब्बगादिसु तणेसु ।
छायण मीराकरणे, अत्थिरफलगं च चंपादी ॥२०४३ ॥ स्तेनाहतेषु तृणेषु दन्तपुरविषयमुदाहरणं वक्तव्यम् , यथा आवश्यके योगसङ्ग्रहेषु "दंतपुर दंतचक्के०" (नि० गा० १२८०) इत्यस्यां गाथायां यद् 'आहरणं निदर्शनमुक्तम्, तत्र यथा 'दन्ताः 10 केनापि न ग्रहीतव्याः' इति राजाज्ञया प्रतिषिद्धत्वाद् धनमित्रसार्थवाहमित्रेण दृढमित्रेण दन्ता दर्भपूलकैराच्छाद्य प्रच्छन्नमानीताः स्तेनाहृताः संवृत्ताः, एवं राज्ञा प्रतिषिद्धानि सम्भवन्ति तृणान्यपि स्तेनाहृतानीति । तैश्च बब्बकादिभिस्तृणैानादीनां छादनं प्रतिश्रयस्य वा मीराकरणं विधीयते । मीराकरणं नाम–कटैरादेराच्छादनम् , उपलक्षणमेतत् , तेन प्रस्तरणार्थमपि तृणानि गृह्यन्ते । फलकं तु प्रस्तरणार्थ मीराकरणार्थ वा । तच्चास्थिरफलकं चम्पकपट्टादि मन्तव्यम् ।15 अस्थिरफलकं नाम-उपविशतां यदधो यातीव, तच्चैवंविधं चम्पकपट्टादि ॥ २०४३ ॥ अस्तेनाहृततृणानां नयने दोषानाह
अतेणाहडाण नयणे, लहुओ लहुया य होति सिट्ठम्मि ।
अप्पत्तियम्मि गुरुगा, वोच्छेद पसज्जणा सेसे ।। २०४४॥ अस्तेनाहृतानां तृणानामनापृच्छय बहिर्नयने लघुको मासः । अपरेण केनापि तस्य 'शिष्टं 20 कथितं 'त्वदीयानि तृणानि संयतैर्वाहिरिकायां नीतानि' तदा चतुर्लघु । कथिते यद्यसावनुग्रह मन्यते ततोऽपि चतुर्लघु । अथाप्रीतिकं करोति तदा चतुर्गुरु । व्यवच्छेदं वा तद्रव्यस्य तस्य साघोर्भूयः प्रदाने कुर्यात् । “पसज्जणा सेस" त्ति 'शेषाणाम्' अन्येषामप्यशन-पानकादिद्रव्याणामपरेषां वा साधूनां प्रसङ्गतो दानव्यवच्छेदं कुर्यात् ॥ २०४४ ॥ १हणं-गृहीतं तत् कुर्व मो० ले० ॥ २ मो० ले. विनाऽन्यत्र-माकर्षणं कृतं ष भा० । माकृष्टेष त• डे. का० ॥
३ मो० ले. विनाऽन्यत्र-स्तेनाहृतेषु बल्वजादितृणेषु दन्तपुरविषयमुदाहरणं वक्तव्यम्, यथा आवश्यके योगसङ्ग्रहेषु "दंतपुर दंतचक्के" इत्यस्यां गाथायां प्रतिपादितम् । तत्र यथा भा० । आवश्यके योगसङ्ग्रहेषु “दंतपुर दंतचक्के" इत्यस्यां गाथायां यद् 'आहरणम्' निदर्शनमुक्तम्, तत्र यथा त. डे. कां० ॥
४ति । तानि च किमर्थ साधुभिरानीयन्ते ? इत्याह-लानादीनां हेतोरुपाश्रयस्य च्छादनार्थ प्रतिश्रयस्य वा. मीराकरणार्थम् । मीराकरणं नाम-कटैः पार्थाणामाच्छादनमित्यर्थः, उपलक्षणमेतत्, तेन प्रस्तरणार्थमित्यपि द्रष्टव्यम् । फलकं पुनः प्रस्तरणार्थ भा० ॥
Loading... Page Navigation 1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400