Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 379
________________ ५९० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकरूपप्रकृते सूत्रम् २ स्तेनाहृतानि तृण-फलकान्यनापृच्छया नीयमानानि पूर्वखामिना राजपुरुषैर्वा दृष्टानि ततः साधुः पृष्टः–कस्यैतानि ? साधुः प्राह-अमुकस्य गृहपतेः इति 'शिष्टे' कथिते सति तस्य ग्रहणाऽऽकर्षणादयो दोषा भवन्ति । अथासौ साधुः भीतः सन् 'निहुते' अपलपति न कथयतीत्यर्थः ततोऽशिष्टे साधोः प्रत्यङ्गिरादोषो भवति, तृण-फलकदायकस्य गृहपतेः सम्बन्धी यश्चौर्यकरणल5 क्षणो दोषः स परकीयोऽप्यात्मनि लगतीत्यर्थः । लोके चोड्डाहो भवति-अहो! साधवोऽपि परद्रव्यमपहरन्ति ॥ २०३८ ॥ अथात्रैव प्रायश्चित्तमाह नयणे दिढे सिढे, गिण्हण कड्डण ववहारमेव ववहरिए । लहुओ लहुगा गुरुगा, छम्मासा छेय मूल दुगं । २०३९ ॥ स्तेनाहृततृणानामपृच्छया बाहिरिकायां नयनं करोति लघुको मासः । अथ तानि नीयमा10 नानि राजपुरुषैदृष्टानि ततश्चत्वारो लघुकाः । तैः पृष्टे साधुना 'शिष्टं' कथितं यथा (ग्रन्थानं ३००० । सर्वग्रन्थानम्-१५२२०) अमुकस्येति ततश्चत्वारो गुरुकाः । अथ स गृही राजपुरुषैर्गृहीतस्ततो ग्रहणेऽपि चत्वारो गुरुकाः । अथासौ तै राजपुरुषै राजकुलाभिमुखमाकर्षितस्ततः षण्मासा लघवः । अथ राजकुलाभिमुखमाकर्पतस्तान् स गृहस्थः प्रतिलोममाकर्षति ततः षड् गुरुकाः । अथ राजकुलं नीत्वा व्यवहारं कारितस्ततः छेदः । व्यवहृते सति यदि स गृहस्थः 15 पश्चात्कृतस्ततो मूलम् । ततो बहुलोकसमक्षमुद्दग्धे हस्त-पादाद्यवयवव्यङ्गिते वा कृतेऽनवस्थाप्यम् । अपद्राविते निर्विषये वा कृते पाराश्चिकम् । सर्वत्र संयतस्यैतत् प्रायश्चित्तम् ॥ २०३९ ।। अथ निहवनपैदं व्याख्याति अहवा वि असिट्ठम्मी, एसेव उ तेण संकणे लहुगा। नीसंकियम्मि गुरुगा, एगमणेगे य गहणादी ॥२०४० ॥ 20 अथवा मया कथिते सत्येष तृणफलकदाता ग्रहणा-ऽऽकर्षणादिकं प्राप्स्यते इति मत्वा यदि न कथयति ततः 'अशिष्टे' अकथिते एष एव स्तेनः सम्भाव्यत इत्येवं 'शङ्कने' शङ्कायां राजपुरुषैः क्रियमाणायां चतुर्लघुकाः । निःशङ्किते चत्वारो गुरवः । ततश्च तस्यैवैकस्यानेकेषां वा साधूनां ग्रहणादयो दोषा भवन्ति ॥ २०४० ॥ तद्यथा नयणे दिढे गहिए, कड्डण ववहारमेव ववहरिए । उड्डहणे य विरंगण, उद्दवणे चेव निविसए ॥ २०४१॥ लहुओ लहुया गुरुगा, छल्लहु छग्गुरुग छेय मूलं च । अणवठ्ठप्पो दोसु अ, दोसु अपारंचिओ होइ ॥ २०४२ ॥ तृणानि प्रतिश्रयान्तरमनापृच्छया नयति लघुको मासः । राजपुरुषैर्दृष्टेषु चत्वारो लघवः । १ या प्रतिश्रयान्तरे नयनं भा० ॥ २ अथ तस्य तेन राजपुरुषानानीय ग्रहणं कारितं तथापि चत्वा भा० ॥ ३ अथ राजपुरुषैरसौ 'पूर्वस्वामिना सह व्यवहारं कुरु' इति भणितस्ततः षण्मासा गुरवः । अथ व्यवहृतं-कारणिकानां पुरतो व्यवहारः कर्तुमारब्धस्ततः छेदः । व्यवहारे कृते सति यदि पश्चात्कृतस्ततो मूलम् भा० ॥ ४ पदं भावयति भा० ॥ ५ °वं यदि शङ्कितं भवति तदा चतुर्लघुकाः भा० ॥ ६ °सः। पूर्वस्वामिना दृष्टे भा० ॥

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400