Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 377
________________ ५८८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् २ अट्ठाइ जाव एकं, करिति भागं असंथरे गाम । अट्ठाइ चिय वसही, जयंति जा मूलवसही उ ॥ २०३१ ॥ कदाचिदष्टौ ऋतुबद्धमासान् ग्लानकार्येण स्थातव्यं भवेद् अतो ग्राममष्टौ भागान् कुर्वन्ति । सतः प्रथमेऽष्टभागे वसतिं तृण-डगलादीनि च गृह्णन्ति, मासं च यावत् प्रथम एवाष्टभागे 5 भिक्षाचर्या विचारभूमिगमनं च कुर्वन्ति । ततो यदि मध्येमासं पूर्णे वा मासे ग्लानः प्रगुणीभूतस्ततस्तदैव निर्गन्तव्यम् । अथ न प्रगुणीभूतस्ततः पूर्ण मासे द्वितीयेऽष्टभागे तिष्ठन्ति, तत्राप्येष एव विधिमन्तव्यः । एवं तृतीयमष्टभागमादौ कृत्वा अष्टममष्टभागं यावद् द्रष्टव्यम् । अथाष्टभिर्भागैर्विभक्ते ग्रामे न संस्तरन्ति ततः सप्तभागीकृत्य तथैव यतन्ते । एवमप्यसंस्तरणे षड् भागानादौ कृत्वा यावदेकमपि भागं कुर्वन्ति । एवं वसतीरपि प्रथमतः पृथक् पृथग् मास10 कल्पप्रायोग्या अष्टौ गृहन्ति । तदभावे सप्त-षट्-पञ्चादिक्रमेण यतन्ते, यावत् तस्यामेव मूलबसतौ तिष्ठन्ति ॥ २०३१ ॥ अथात्रैव भङ्गकानाह इत्थं पुण संजोगा, इविक्कस्स उ अलंमें लंभे य । णेगा विहाणगुणिया, तुल्ला-तुल्लेसु ठाणेसु ॥ २०३२ ॥ अत्र पुनः प्रक्रमे 'एकैकस्य' वसतिभागस्य भिक्षाचर्याभागस्य वा अलाभे लाभे च यानि 15 तुल्यानि-समानसङ्ख्याकानि स्थानानि अतुल्यानि-विसदृशसङ्ख्याकानि तेषु विधानेन-चारणि काविधिना गुणिताः सन्तः ‘अनेके' बहवः 'संयोगाः' भङ्गका भवन्ति । चारणिकाक्रमश्चायम्-अष्टौ वसतयोऽष्टौ भिक्षाचर्याः १ अष्टौ वसतयः सप्त भिक्षाचर्याः २ एवं षड् भिक्षाचर्याः ३ पञ्च भिक्षाचर्याः ४ चतस्रो भिक्षाचर्याः ५ तिस्रो भिक्षाचर्याः ६ द्वे भिक्षाचर्ये ७ एका भिक्षाचर्या ८, एवं सप्त वसतयोऽष्टौ भिक्षाचर्याः १ सप्त वसतयः सप्त भिक्षाचर्याः २ 20 इत्यादिचारणिकया सप्तादिसङ्ख्याखपि वसतिविषयासु प्रत्येकमष्टावष्टौ भङ्गकाः प्राप्यन्ते, सर्वसङ्ख्यया लब्धा भङ्गकानां चतुःषष्टिरिति ॥ २०३२ ॥ अथैतेष्वेव भङ्गकेषु विधिमाह एक्काइ वि वसहीए, ठिया उ भिक्खयरियाएँ पयतंति ।। वसहीसु वि जयणेवं, अवि एकाए वि चरियाए ॥ २०३३ ॥ येषु भङ्गकेष्वेकैव वसतिः प्राप्यते तेष्वेकस्यामपि वसतौ स्थिता भिक्षाचर्यायां प्रयतन्ते, 23 प्रथममष्टौ भागान् ग्रामं विभज्य भिक्षां पर्यटन्ति, असंस्तरणे यावदेकमपि भागं कृत्वेति भावः। अपिशब्दो ब्यादिसङ्ख्याकासु वसतिषु तिष्ठन्तः सुतरां भिक्षाचर्यायां प्रयतन्ते इति सूचनार्थः । यत्र त्वेकैव भिक्षाचर्या प्राप्यते तत्रैकस्यामपि भिक्षाचर्यायां पर्यटेद्भिः एवमेव वसतिप्वपि यतना कर्तव्या ॥२०३३॥ उक्तमपवादद्वारम् । तदुक्तौ च समर्थितं "पडिलेहण निक्खमणे" (गा० १६५८-५९) इति द्वारगाथाद्वयम् ॥ सूत्रम्30 से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथाणं हेमंत-गिम्हासु दो १°टन्ते एव मो० ले० विना ॥ २ इत्यादि द्वा° भा० ॥

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400