Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५८६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
मानः सन्नवश्यं विशीर्यते इति व्युत्पत्तेः, तद्विपरीतो - अपरिशाटी फलकादिरूपः । एवं द्विविधमपि संस्तारकं यत्र मासकल्पं वर्षावासं वा कृतवान् तत्रैव ग्रामादौ गृह्णतः । एवमाहारमपि तेष्वेव कुलेषु गृह्णतः । औघिकौपग्रहिकभेदाद् द्विविधो य उपधिस्तस्मिँश्च तत्रैव गृह्यमाणे । तथा डगलकानि-पुतप्रोञ्छनलेष्टुकाः सरजस्कः - क्षारः मल्लेक - मात्र के प्रतीते तेषामादिशब्दात् काष्ठ5 किलिञ्चादीनां च तत्रैव ग्रहणे प्रायश्चित्तं वक्ष्यमाणलक्षणं भवति ॥ २०२४ ॥
तथा ‘अवकाशः’ प्रतिश्रयैकदेशः 'संस्तारः' संस्तारकभूमिः, एतौ पूर्वपरिभुक्तावेव परिभुङ्क्ते । 'विचारः' प्रश्रवणम् 'उच्चारः ' संज्ञा, एतौ तत्रैव स्थण्डिले समाचरति । वसतिं प्राक्परिभुक्तां परिभुङ्क्ते । ग्रामस्योपरि ममत्वं करोति, यद्वाऽवकाशादिषु सर्वेष्वपि ममत्वं करोति । तथा ऋतुबद्धे मासाधिकं वर्षावासे चतुर्मासाधिकं वसति । एतेषु स्थानेषु 'इयम्' अनन्तरमेव वक्ष्य10 माणा शोधिः २०२५ ।। तामेवाह —
उक्कोसोवहि-फलए, वासातीए अ होंति चउलहुगा ।
डगलग सरक्ख मल्लग, पणगं सेसेसु लहुओ उ ॥। २०२६ ॥
उत्कृष्टे उपधौ – वर्षाकल्पादिके फलके च तत्रैव गृह्यमाणे वर्षातीते चत्वारो लघवः । डगलक-सरजस्क-मल्लकेषु उपलक्षणत्वात् काष्ठ - किलिञ्चादौ च रात्रिन्दिवपञ्चकम् । 'शेषेषु' परिशा15 टिसंस्तारकादिषु सर्वेष्वपि • अनन्तरगाथाद्वयोक्तेषु स्थानेषु - लघुको मासः || २०२६॥ अथ मासाद्युपरि तिष्ठतो दोषानाह
संवासे इत्थिदोसा, उग्गमदोसा व नेहतो कुज्जा |
चढण गिलाणदुल्लभ, वारत्तिसिभासियाहरणं ॥। २०२७ ॥
ऋतुबद्धे वर्षावासे वा यथोक्त कालावधेरुपरि 'संवासे' एकत्रावस्थाने क्रियमाणे सन्दर्शन20 सम्भाषणादिना स्त्रीविषया आत्मपरोभयसमुत्था दोषा भवेयुः । प्रभूतकालावस्थानतश्च साधूनामुपरि भद्रकगृहिणां गाढतरः स्नेह उपजायते, ततश्च ते स्नेहतः 'उद्गमदोषान्' आधाकर्मादीन् र्कुर्युः । ये तु प्रान्ता गृहपतयस्ते त्र्युः – कियच्चिरमस्माभिरमीषामद्यापि दातव्यं तिष्ठति ? इति । अतिचमढणया च क्षेत्रं नीरसं भवति, ततो ग्लानस्य उपलक्षणत्वादाचार्यादीनां च प्रायोग्यं दुर्लभं भवेत् । अत्र च वारत्तकमहर्षेः कृतखल्पमात्रगृहिसङ्गस्य प्रद्योतनृपेणोपहसितस्याहर25 णम् । अत एव तेन भगवता ऋषिभाषितेषु यत् सप्तविंशमध्ययनं विरचितं तत्रादावेवेदमुपदेशसूत्रमभाणि -
न चिरं जणि संवसे मुणी, संवासेण सिहि वडई |
भिक्खुस्स अणिच्चचारिणो, आयट्ठे जम्हा उहायई ॥ इति । ॥ २०२७ ॥
१ 'लकं मात्रकं च प्रतीतम् आदिशब्दात् काष्ठ-किलिञ्चादीनां परिग्रहः एतेषां तत्रैव भा० ॥ २ 'ल्पादौ फल' मो० ले० विना ॥ ३० एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥ ४ परि तिष्ठतः 'संभा० ॥ ५ 'स्थानं तत्र सन्द° भा० ॥ ६ कुर्युः । एवं तावद् भद्रककृता दोषा भवन्ति । ये तु प्रान्ता गृहपतयस्ते प्रद्वेषं गच्छेयुः - कियच्चिरमस्माभिरमीषामद्यापि दातव्यमवशिष्यते ? इति । अति भा० ॥ ७ हर्षेः सम्बन्धि यद् ऋषिभाषितनामकमध्ययनं तदुदाहरणं वक्तव्यम् । तेन हि भगवता भा० ॥
Loading... Page Navigation 1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400